यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधरम्, क्ली पुं, (न ध्रियते कामुकस्य धैर्य्यं न तिष्ठति यत्र, न + धृ + पुंसि संज्ञायां घः प्रायेणेति अधिकरणे घः ।) स्मरागारं । रतिगृहं । योनि- रिति यावत् । इति शब्दरत्नावली त्रिकाण्ड- शेषश्च ॥

अधरः, पुं, (न ध्रियतेऽसौ धृ + अच् ततो नञ्- समासः ।) मुखावयवविशेषः । नावो ठो~ट । इति भाषा । ओष्ठः । उपर ठो~ट । इति भाषा । तयोः पर्य्यायः । रदनच्छदः २ दशनवासः ३ । इत्यमरः ॥ परन्तु द्वयोरपि ओष्ठाधरप्रयोगः यथा । रदन- च्छदौ दशनवाससी उभयत्र वर्त्तेते तथा ओष्ठा- धरावपि उभयत्रेति नयनानन्दः ॥ रायमुकुटो- ऽप्याह उपरिवर्त्ती अधोवर्त्ती च ओष्ठः अधरो- ऽप्येवं । पुरुषस्य रक्ताधरः प्रशस्तः । यथा, -- “पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च । तालुकोऽधरजिह्वा च सप्त रक्तं प्रशस्यते ॥” स्त्रियास्तु यथा, -- “पाटलावर्त्तुलः स्निग्धो रेखाभूषितमध्यभूः । सीमन्तिनीनामधरो राज्ञां चैव प्रियो भवेत् ॥ श्यामः स्थ्रलोऽधरोष्ठः स्यात् वैधव्यकलहप्रदः । मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ॥” इति सामुद्रकं ॥

अधरः, त्रि, (न धरः नञ्समासः । नीचः ।) अधः । तलं । हीनः । अपकृष्टः । इति मेदिनी ॥ हीन- वादी । इति हेमचन्द्रः ॥ (यथा शाकुन्तले । पिबसि रतिसर्व्वस्वमधरं ।) ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर पुं।

अधरोष्ठमात्रम्

समानार्थक:ओष्ठ,अधर,रदनच्छद,दशनवासस्

2।6।90।1।2

ओष्ठाधरौ तु रदनच्छदौ दशनवाससी। अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः॥

पदार्थ-विभागः : अवयवः

अधर वि।

अधस्तात्

समानार्थक:अधर

3।3।190।1।2

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः। अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर¦ पु॰ न ध्रियते धृङ--अच् न॰ त॰। (ठोट) इति ख्यातेऊर्द्ध्व, नीचे वा ओष्ठे।
“पिबसि रतिसर्वस्वमधरमिति” [Page0120-b+ 38] शकु॰।
“निर्मृष्टरागोऽधर” इति सा॰ दर्प॰।
“उमा-मुहे विम्बफलाधोरोष्ठे” इति कुमा॰।
“अधरंखलु विम्बनामकं फलमाभ्यामिति भव्यमन्वयम्। लभ-तेऽधरविम्बैत्यदः पदमस्या रदनच्छदे वददिति” नैष॰। धरणं धरः ब॰। तत्सम्बन्धरहिते हीने,

५ ब॰। तलेनीचे च स्मरमन्दिरे स्त्रीचिह्नभेदे पु॰ न॰। हीनवादिनित्रि॰। अघं सर्वनामकार्य्यभाक्। तत्रायं विशेषःपूर्व्वपरावरदक्षिणोत्तरापराघराणि व्यवस्थायामसंज्ञाया-मिति (पा॰ ग॰)। इत्युक्तेः व्यवस्थायामेवास्य सर्वनामता-व्यवस्था च स्वाभिधेयापेक्षोऽवधिनियमः। अवधित्वञ्च दैशिकंकालिकञ्च तत्र
“पूर्ब्बापरादिशब्द्सानां केषाञ्चित् प्रविभागतः। सामान्येनाभिवानेऽपि प्रवृत्तिर्देशकालयोरित्य” भियुक्तोक्तेःकेषाञ्चिदेव उभयावधित्वनियमः न सर्वेषाम्, तथाहि पूर्ब्बा-परावरपरोत्तरशब्दा मुख्यवृत्त्या दिक्कालयोर्वर्त्तन्ते तदव-च्छिन्नदेशग्रामादौ च। तत्र पूर्ब्बस्यं दिशि वसति, पूर्ब्ब-स्यादिश आगतः पूर्बदिक्सम्बन्धात् पूर्ब्बा वापी। एवंपूर्ब्बस्मिन् मासे वसति पूर्व्वस्मात् मासान्निवृत्तः। तत्काल-सम्बन्धात् पूर्ब्बो गुरुः पूर्ब्बस्मिन् गुरोरागतः पूर्ब्बस्मात्प्रासादादागत इत्यादि। एवम् अपरावरपरशब्दत्रयस्यापि
“ते च विनापि दिक्कालसम्बन्धं देशवृत्तिमन्तः इति भेदः। अपरदेशसम्बन्धादपरो ग्रामः अवरो वा। अपरस्मिन् अव-रस्मिन् वा पर्व्वते वसति। सन्निकर्षे विप्रकर्षे च सर्व्वासुदिक्षु तुल्योऽयं व्यपदेशः। न तु ते दिग्गतसम्बन्धेन तत्तदर्थबोधकाः एकस्यामेव दिशि स्थितयोर्निकटानिकटयोःपरावरादिव्यपदेशप्रवृत्तेः। एतच्छब्दापेक्षया मुख्यवृत्त्यावक्ष्यमाणकारिकायां देशग्रहणम् सार्थकं अन्यस्य तुस्वतो देशवृत्तित्वम्। सन्निकर्षासन्निकर्षयोर्देशवत् कालो-ऽप्याश्रयः। तेन परः अपरः अवरो वा कालः। अतएव परकालसम्बन्धात् परःपाणिनिः अपरकाल-संबन्धादपरः कैयटादिरिति। दक्षिणाधरशब्दौ तु दिशिदिगवच्छिन्ने पर्वतादौ च वर्त्तेते न तु काले, नापिकालावच्छिन्ने इति भेदः। दक्षिणस्यां वसति, दक्षिणेपर्वते वा वसति, अवरस्यां दिशि वसति अधरदिक्सम्ब-न्धात् अधरप्रासादे वा वसति इति। तेन
“स्वस्त्वज्ञातिधने-ऽनाम्नि कालदिग्देशवृत्तयः। पूर्ब्बापरावरधरापराश्चदक्षिणोत्तरौ” इति गणरत्ने सर्वेषां कालादिवृत्तित्वोक्तावपिदक्षिणाधरयोस्तु न कालवृत्तित्वमिति तेनैव स्वकृतव्याख्यान-रूपे गणरत्नमहोदधौ स्थिरीकृतम्। दक्षिणस्यां दिशि[Page0121-a+ 38] स्त्री॰ दक्षिणदिशश्च भूगोले यथाधरत्वं तथा उदक्शब्देवक्ष्यते। सर्वनाम्नां वृत्तौ पुंवद्भावात् अधरस्यां भवः अधर-तन इत्यादि अधरस्यां वर्त्तते अधरवृत्तिः अधरा अधरस्याःअधरस्यामित्यर्थे अधरत इत्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर¦ mfn. (-रः-रा-रं)
1. Low, inferior, below.
2. Low, vile.
3. Silenced, refuted, overcome in abuse or controversy. f. (-रा) The lower region. m. (-रः) The lower lip. (dual. रौ) The lips. mn. (-रः or रं) Puden- dum muliebre. E. अ neg. धृ to have or hold, and अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर [adhara], a. [न ध्रियते; धृ-अच्, न. त.]

Lower (opp. उत्तर), (lit. not held up); tending downwards; under, nether, downwards; ˚वासः under garment; असितमधरवासो विभ्रतः Ki.4.38; cf. अम्बर; सुवर्णसूत्राकलिताधराम्बराम् Śi.1.6; ˚ओष्ठ lower or nether lip, see below. (In this sense अधर partakes of the character of a pronoun).

Low, mean, vile; ˚उत्तरम् See below; lower in quality, inferior.

Silenced, worsted, not able to speak; See हीन, हीनवादिन्.

Previous, preceding as in अधरेद्युः q. v.-रः The nether (or sometimes the upper) lip; in general ˚पत्रम्. प्रवेपमानाधरपत्रशोभिना Ku.5.27 leaf-like lower lip; बिम्बाधरालक्तकः M.3.5.; पक्कबिम्बाधरोष्ठी Me.84; पिबसि रतिसर्वस्वमधरम् Ś.1.21;1.23;3.23; cf. अधरं खलु बिम्बनामकं फलमाभ्यामिति भव्यमन्वयम् । लभते$धरबिम्ब इत्यदः पदमस्या रदनच्छदे वदत् ॥ N.2.24. -रा The nadir; (अधोदिश्) or the southern direction. -रम् The lower part (of the body); पृष्ठवंशाधरे त्रिकम् Ak.

Pudendum Muliebre (also m.).

Address. speech (opp. उत्तर); statement, sometimes used for reply also. -Comp. -उत्तर a.

higher and lower, inferior and superior, worse and better; राज्ञः समक्षमेवाक्योः ˚व्यक्तिर्भविष्यति M.1; व्यत्यये कर्मणां साम्यं पूर्ववच्चा- धरोत्तरम् Y.1.96.

former; prior and later; sooner and later; यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते Ms.8.53.

in a contrary way, topsy-turvy, upside down (the natural order of things being inverted); श्रुतं भवद्भिरधरोत्तरम् Ś.5. you have (certainly) learnt in a contrary way, i. e. to consider good as bad and vice versa; (it might perhaps also mean "have you, i. e. the members of the King's court", heard this mean or base reply अधरं च तदुत्तरम्; (यदि न प्रणयेद्राज दण्ड) स्वाम्यं च न स्यात्कस्मिंश्चित् प्रवर्तेताधरोत्तरम् Ms.7.21. (अधरम् = शूद्रादि, उत्तरम् = प्रधानम्); अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् Mb.

nearer and further.

question and answer; -ओष्ठः, -औष्ठः P. वार्त्तिक ओत्वोष्ठदोःसमासे वा. the lower lip; अङ्गुलिसंवृत˚ Ś.3. 24; Me.84 (-ष्ठम्) the lower and upper lip.-कंटकः a prickly plant; Hedysarum Alhagi (धमासा Mar.). -कंटिका a plant, Asparagus racemosus (Mar. लघुशतावरी). -कण्ठः the lower part of the neck.-कायः [अधरं कायस्य] the lower part of the body. -पानम् kissing, lit. drinking the lower lip. -मधु, -अमृतम् the nectar of the lips. -स्वस्तिकम् the nadir.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर mfn. (connected with अधस्) , lower , inferior , tending downwards

अधर mfn. low , vile

अधर mfn. worsted , silenced

अधर m. the lower lip , the lip

अधर n. the lower part , a reply , pudendum muliebre L. [ Lat. inferus].

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधर वि.
निमन्, नीचे स्थित, नीचे स्थान पर (नीची जगह पर) सव्याधरानुपस्थान्कृत्वा (उपविशेयुः), ला.श्रौ.सू. 1.11.22; दक्षिणानधरान्, बौ.पि. 2.9.1।

"https://sa.wiktionary.org/w/index.php?title=अधर&oldid=485238" इत्यस्माद् प्रतिप्राप्तम्