यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमणम्, क्ली, (आङ् + क्रम् + ल्युट् ।) आक्रमकरणं । (“यः पृष्ठवर्त्ती नृपतिः देशाक्रमणाद्याचरति” । इति कुल्लूकभट्टः ।) व्यापनं ॥ (अतिवर्त्तनं । यथा, रामायणे । “कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति” । आरोहणम् । यथा रामायणे । “न देवलोकाक्रमणं नामरत्वमहं वृणे” ।)

"https://sa.wiktionary.org/w/index.php?title=आक्रमणम्&oldid=115061" इत्यस्माद् प्रतिप्राप्तम्