यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रियम्, क्ली, (इन्द्रस्यात्मनोलिङ्गमनुमापकम् । इन्द्रेण ईश्वरेण सृष्टं । इन्द्रे णात्मना मम चक्षुर्मम श्रोत्र- मित्यादि क्रमेण ज्ञातं । इन्द्रेण जुष्टं वा इत्याद्यर्थेषु इन्द्रशब्दात् निपातनात् घच् ।) ज्ञानकर्म्म- साधनम् । तत्पर्य्यायः । हृषीकम् २ विषयि ३ । इत्यमरः ॥ अक्षम् ४ करणम् ५ ग्रहणम् ६ । इति राजनिर्घण्टः ॥ तत्र तु ज्ञानेन्द्रियाणि पञ्च । यथा । कर्णः १ त्वक् २ चक्षुः ३ जिह्वा ४ नासिका ५ कर्म्मेन्द्रियाणि पञ्च यथा । वाक् १ पाणिः २ पादः ३ पायुः ४ उपस्थः ५ । अन्तरिन्द्रियाणि चत्वारि । मनः १ बुद्धिः २ अहङ्कारः ३ चित्तं ४ ॥ मनस्तावदि- न्द्रियाणां नियामकम् । चतुर्द्दश देवाः चतुर्द्दशे- न्द्रियनियन्तारः । तत्र श्रोत्रस्य देवता दिक् । त्वचो वातः । चक्षुषः सूर्य्यः । रसनायाः प्रचेताः घ्राणस्याश्विनौ । वाचो वह्निः । हस्तस्य इन्द्रः । पादस्य विष्णुः । पायोर्मित्रः । उपस्थस्य प्रजापतिः । मनसश्चन्द्रः । बुद्धेश्चतुर्मुखः । अहङ्कारस्य शङ्करः । चित्तस्याच्युतः । इति वेदान्तः ॥ न्यायमते । पृथिव्या इन्द्रियं घ्राणं । जलस्य जिह्वा । तेजस- श्चक्षुः । वायोस्त्वक् । आकाशस्य कर्णः । (अथ बुद्धेर्ब्रह्मा । अहङ्कारस्येश्वरः । मनसश्चन्द्रमाः । दिशः श्रोत्रस्य । त्वचो वायुः । सूर्य्यश्चक्षुषोः । रसनस्यापः । पृथिवी घ्राणस्य । वचसोऽग्निः । हस्तयोरिन्द्रः । पादयोर्विष्णुः । पायोर्मित्रं । प्रजापतिरुपस्थस्येति । इति सुश्रुतः ॥) (यथा, मनुः । २ । ८८ । “इन्द्रियाणां विचरतां विषये- ष्वपहारिषु” । विज्ञानम् । यथा, ऋग्वेदे १ । १११ । २ । “यथा क्षयाम सर्व्ववीरया विशातन्तः शर्द्धाय धासथास्विन्द्रियम्” । “इन्द्रियं विज्ञानम्” इति दयानन्दभाष्यम् ।) शुक्रम् । वीर्य्यम् । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रिय नपुं।

चक्षुरादीन्द्रियम्

समानार्थक:हृषीक,विषयी,इन्द्रिय,ख

1।5।8।1।5

गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम्. कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम्.।

 : पाय्वादीन्द्रियम्, मनोनेत्रादीन्द्रियम्, चर्मः, नासिका, जिह्वा, नेत्रम्, कर्णः, इन्द्रियम्

पदार्थ-विभागः : इन्द्रियम्

इन्द्रिय नपुं।

रेतस्

समानार्थक:शुक्र,तेजस्,रेतस्,बीज,वीर्य,इन्द्रिय

2।6।62।1।6

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रिय¦ न॰ इन्द्रस्य आत्मनो लिङ्गं इन्द्र + घ। ज्ञान-[Page0955-a+ 38] क्रियासाधने

१ चक्षुरादौ

२ हस्तादौ च।
“इन्द्रियमिन्द्र-लिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा” पा॰तस्या नेकाविधार्थकता दर्शिता इतिशब्दः प्रकारार्थे इन्द्रेणदुर्जयमिन्द्रियमित्यपि” सि॰ कौ॰। अत्र सूत्रे इन्द्रेणपरमात्मना दृष्टमित्युक्तिरपि इन्द्रियस्य अस्मदादीनांप्रत्यक्षागीचरतां निरस्यति। यद्वा इन्द्रेणात्मना दृष्ट-सात्मत्वेनाभिमतं काणोऽहं बधिरोऽहमित्याद्यभिमतम्।
“एतस्माज्जायते प्राणोमनः सर्व्वेन्द्रियाणि चेति” श्रुतेःइन्द्रियस्य ईश्वरसृष्टत्वम्। इन्द्रदत्तमिति इन्द्र ऐश्वर्य्यंदत्तोऽस्मै स्वस्वकार्य्ये हि तेषामैश्वर्य्यमीश्वरेण दत्तम् अतएवतानि बलादिव गृहीत्वा विषयेषु प्राणिनं स्वस्वविषयग्र-हणाय प्रवर्त्तयन्ति। असति ह्यैश्वर्य्ये न तद् सम्भवति। चक्षुरादीनामात्मानुमापकत्वञ्चेत्थम्। करणव्यापारः सक-र्त्तृकः करणव्यापारेत्वात् छिदिक्रियायां वा-स्यादिव्यापारवदिति करणव्यापारेण कर्त्तुरमानगम्यत्वेतत्साजात्यात् ज्ञानक्रियाकरणमपि सकर्त्तुकं करणत्वा-दिति चक्षुरादिना ज्ञानसाधनेनात्मनोऽनुमानम्। तथाइन्द्रियस्याप्रत्यक्षत्वेऽपि ज्ञानक्रिया सकरणिका क्रिया-त्वात् छिदिक्रियावत् इत्यनुमानम् तत्सत्त्वे प्रमाणम्। तत्तन्मतभेदेन इन्द्रियस्य भौतिक त्वामौतिकत्वसर्व-गतत्वासर्वगतत्वप्राप्यकारित्वाप्राप्यकारित्वादिकम् आत्म-शब्दे

६६

५ पृष्ठे प्रपञ्चेन परीक्षितम्। इ-न्द्रियञ्च द्विविधं ज्ञानकार्म्मोन्द्रियभेदात् तत्र श्रोत्रा-दीनि ज्ञानेन्द्रायाणि हस्तादीनि कर्मेन्द्रियाणि।
“श्रोत्रंत्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी। पायूपस्थंहस्तपादं वाक् चैव दशमी स्मृता” मनुः।
“नासिका-लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च। हस्तौ पायु-रुपस्थश्च वाक्पादौ च दशैव तु” शारदा॰।
“बुद्धीन्द्रि-याणि श्रोत्रघ्राणरसनत्वगाख्यानि। वाक्पाणिपादपायू-पस्थानि कर्म्मेन्द्रियाण्याहुः” सां॰ का॰। एतानि चषाह्येन्द्रियाणि।
“उभयात्मकमत्र मनः संकल्पकमिन्द्रियञ्चसाधर्म्म्यात्” सा॰ का॰ मनस्तूभयविधकरणोपकारित्वात्करणम्। तच्च ज्ञानकर्म्मव्यापारसामान्ये कारणमपिन तत्र करणम् असाधारणकारणस्यैव करणत्वात् रूपा-दिज्ञाने चक्षुरादीनामिव तस्य असाधारणबाह्यग्राह्यवि-शेषाभावात् किन्तु सुस्वाद्युपलब्धौ असाधारण्यात् तत्रैवास्यकरणत्वमिति नैयायिकादयः। वेदान्तिनस्तु मनसोनेन्द्रि-यत्वमङ्गीकुर्व्वन्तितच्च आत्मशब्दे दर्शितम्। अतएव
“पञ्च-[Page0955-b+ 38] प्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतमूतोत्थसूक्ष्माङ्गं भोगसाधनमिति” मनोबुद्ध्योरिन्द्रियात् पृथग्-निर्द्देशः। सांख्यमते
“सात्विक एकादशकः प्रवर्त्तते वैकृ-तादहङ्कारात्। भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्” सां॰ का॰ रजोगुणोपष्टब्धसात्विकादेवाहङ्कारात् एकाद-शेन्द्रियोत्पत्तिरुक्ता तेनाहङ्कारिकाणीन्द्रियाणि।
“घ्राण-रसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः” गो॰ सू॰भौतिकानीति नैयायिकाः।
“एतस्माज्जायते प्राणः मनःसर्वेन्द्रियाणि चेति” श्रुतेः आत्मोपादानानीति वेदान्तिनः। अत्र इन्द्रियेभ्यः मनसः पृथग्निर्देशादपि मनसोनेन्द्रिय-त्वम् अतएव कठोपनिषदि गीतायाञ्च
“इन्द्रियेभ्यः परा-ह्यर्था अर्थेम्यश्च परं मनः” इन्द्रियाणि हयानाहुर्मनः प्रग्रहमेव चेति” च इन्द्रियमनसोर्भेदनिर्देशः”। यथा च तदुत्प-त्तिः तथा पञ्चदश्यां दर्शितम् यथा।
“तमःप्रधानप्रकृतेस्तद्भोगायेश्वरेच्छया। वियत्पवनतेजोऽम्बुभुवो भूतानि ज-ज्ञिरे। सत्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम्। श्रोत्रत्वगक्षिरसनघ्राणाख्यमुपजायते। तैरन्तःकरणंसर्वैर्वृत्तिभेदेन तत् द्विधा। मनोविमर्शरूपं स्याद्बुद्धिःस्यान्निश्चयात्मिका। रजोंशैः पञ्चभिस्तेषां क्रमात् कर्म्मेन्द्रि-याणि तु। वाक्पाणिपादपायूपस्थाभिधानानि जज्ञि-रे”

१ दीपे। तेषां स्थानकार्य्यादिकमुक्तं तत्रैव

२ दीपे
“श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चेन्द्रियपञ्चकम्। कर्णादिगोलकस्थं तत्प्राप्त्यै धावेत् बहिर्मुखम्। कदाचित्पिहिते कर्ण्णेश्रूयते शब्द आन्तरः। प्राणवायौ जा-ठराग्नौ जलपानेऽन्नभक्षणे। व्यज्यन्तेह्यान्तराः स्पर्शा-मीलने चान्तरं तमः। उद्गारे रसगन्धौ चेत्यक्षाणामा-न्तरग्रहः। पञ्चोक्त्यादानगमनविसर्गानन्दकाः क्रियाः। कृषिवाणिज्यसेवाद्याः पञ्चस्वन्तर्भवन्ति हि। वाक्पाणिपादपायूपस्थं कर्मेन्द्रियपञ्चकम्। मनो दशेन्द्रियाध्यक्षं हृत्-पद्मगोलकस्थितम्। तच्चान्तःकरणं नाह्येष्वस्वतन्त्रं विने-न्द्रियैः। अक्षेष्वर्थार्पितेष्वेव गुणदोषविचारकम्। सत्वं रज-स्तमश्चास्य गुणा, विक्रियते हि तैः। वैराग्यं क्षान्तिरौदा-र्य्यमित्याद्याः सत्वसम्भवाः। कामक्रोधौ लोभमोहावि-त्याद्या रजौत्थिताः। आलस्यभ्रान्तितन्त्राद्या विकारास्त-मौत्थिताः। सात्विकैः पुण्यनिष्पत्तिः पापोत्पत्तिश्च रा-जसैः। तामसे नोभयं किन्तु वृथायुःक्षपण भवेत्”। तत्रे-न्द्रियाणां कार्य्यभेदा अपि सां॰ का॰ दर्शिताः यथा
“शब्दादिषुपञ्चानामालोचनमात्रमिष्यते वृत्तिः। वचनादानविहरणोत्[Page0956-a+ 38] सर्गानन्दाश्च पञ्चानाम्”। आदिपदात् स्पर्शरूपरसगन्धा-नां ग्रहणम् तथा च श्रोत्रस्य शब्दग्रहणम्, त्वचः स्पर्श-ग्रहणम्, चक्षुषो रूपग्रहणम्। जिह्वाया रसग्रहणम्। घ्राणस्य गन्धग्रहणमसाधारणं कार्य्यं भवति। एवं वागा-दीनां वचनादिकर्म्माण्युक्तानि।
“अन्तःकरणं त्रिविधं दशधाबाह्यं त्रयस्य विषयाख्यम्। साम्प्रतकालं बाह्यं, त्रि-कालमाभ्यन्तरं करणम्” सां॰ का॰।
“अन्तःकरणंत्रिविधं बुद्धिरहङ्कारो मन इति। शरीराभ्यन्तरवृत्ति-त्वादन्तःकरणम्। दशधा बाह्यमिन्द्रियं त्रयस्यान्तःकरणस्यविषयाख्यं विषयमाख्याति विषयसंकल्पाभिमानाध्यव-सायेषु कर्त्तव्येषु द्वारीभवति। तत्र बुद्धीन्द्रयाण्यालो-चनेन, कर्मेन्द्रियाणि तु यथास्वं व्यापारेण” सा॰ कौ॰।
“विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च” मनुः।
“शौचमिन्द्रियनिग्रहः” मनुः।
“इन्द्रियस्येन्द्रियस्यार्थेरागद्वेषौ व्यवस्थितौ”
“इन्द्रियाणि प्रमाथीनि” गीता॰। पञ्च बाह्यानि ज्ञानेन्द्रियाणीति मनुष्याद्यभिप्रायम् कृचित्जीवे अदृष्टवशात् ततो न्यूनताऽपि। यथा वृक्षाणाम्स्पर्शसाधनत्वगिन्द्रियमात्रम् शङ्खशुक्त्यानीनाम् त्वग्जिह्वेद्वे इन्द्रिये महीलतादीनां त्रीणीन्द्रियाणि। सर्पादीनांचत्वारीन्द्रियाणि तेषां श्रोत्राभावात् कुम्भीरस्य च चत्वारितस्य जिह्वाभावात् इत्यबधेयम्। एतेषाञ्च जीवानां लिङ्ग-शरीरसत्त्वेऽपि तत्तद्गोलकस्थानशून्यत्वान्न तत्तत्कार्य्यार्थंवृत्तिः। बौद्धमते गोलकान्येवेन्द्रियायाणि। तन्मतं विव-रणीपन्यासे दूषितं तच्च

६६

६ पृ॰ दर्शितम्।

२ रेतसि

३ वीर्य्ये च।
“इन्द्रियकामस्य” श्रुतिः
“समावदिन्द्रियाभवन्ति” ताण्ड्य॰
“समानसामर्थ्याः” भा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रिय¦ n. (-यं)
1. An organ of sense divided into three classes, Jananendri- yas, Karmendriyas, and Antarindriyas, or organs of percep- tion and action, and the internal organs; the first are the eye, ear, nose, tongue, and skin; the second, the organ of speech or larynx, hand, foot, anus, and parts of generation; the last are, Manas the mind or organ of thought; Buddhi the organ of apprihension; Ahankara the organ of selfishness; and Chitta the heart or organ of feeling.
2. Semen virile. mfn. (-यः-या-यं) Done, seen, given, &c. by INDRA. E. इन्द्र the soul or self, and इयच् affix, deriv. irr. what is with difficulty restrained by the soul, or इन्द्र the deity, and घ aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रिय [indriya], a. Fit for or belonging to or agreeable to, Indra. -यः A friend or companion of Indra. -यम् [इन्द्र-घ; इन्द्रेण दुर्जयम्; by P.V.2.93 इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट मिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा]

Power, force, the quality which belongs to Indra.

An organ of sense, sense, or faculty of sense. (Indriyas are often compared to restive horses, which, if not properly checked, will lead one astray; cf. मा भूवन्नपथवरास्तवेन्द्रियाश्वाः Ki.5.5). There are two kinds of Indriyas: (a) ज्ञानेन्द्रियाणि or बुद्धीन्द्रियाणि; श्रोत्रं त्वक्चक्षुणी जिह्वा नासिका चैव पञ्चमी (also मनः according to some); and (b) कर्मेन्द्रियाणिः -पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता Ms.2.9. Ms. further adds एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । यस्मिञ् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ In the Vedanta मनः, बुद्धि, अहंकार and चित्त are said to be the four internal organs, the total number of organs being, therefore, 14, each presided over by its own ruler or नियन्तृ. In Nyāya each organ is connected with its own peculiar element; the eye, ear, tongue, nose, and skin being connected respectively with Light or fire, Ether, Water, Earth and Air.

Bodily or virile power, power of the sense.

Semen; गणिकान्नमथेन्द्रियम् Mb.12.36.28.

Symbolical expression for the number '5'. -Comp. -अगोचर a. imperceptible.

अर्थः an object of sense; these objects are: रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी Ak.; इन्द्रियस्येन्द्रियस्यार्थे रागद्वैषौ व्यवस्थितौ Bg.3.34; Bh.3.5.8; R.14.25.

anything exciting these senses.-असङ्गः non-attachment to sensual objects, stoicism.-आत्मन् m.

an epithet of Viṣṇu.

an organ of sense. -आदिः the principle called ahaṅkāra (in Sāṅ. Phil.).

आयतनम् the abode of the senses,i. e. the body.

the soul. -आराम a. given to enjoying the objects of sense; अघायुरिन्द्रियारामो मोघं पार्थ स जीवति Bg.3.16. -ईशः the soul. -गोचर a. perceptible to the senses. (-रः) an object of sense; पञ्च चेन्द्रियगोचराः Bg.13.5. -ग्रामः, -वर्गः the assemblage or collection of organs, the five organs of sense taken collectively; बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति Ms.2.215, 1,175; निर्ववार मधुनीन्द्रियवर्गः Śi.1.3. -ज a. in one's presence, visible. -ज्ञानम् consciousness, the faculty of perception. -धारणा restraint of senses; स्थिरामिन्द्रिय- धारणाम् Kaṭh.2.6.11. -निग्रहः restraint of senses.-प्रसङ्गः sensuality. -बुद्धिः f. perception by the senses, exercise of any organ of sense. -बोधन a. exciting power; stimulating or sharpening the senses. (-नम्) any excitement of senses, a stimulus. -वधः insensibility.-विप्रतिपत्तिः f. perversion of the organs, wrong preception. -वृत्तिः f. function of the organs. -संप्रयोगः Functioning of senses with reference to objects. -सुख sensual pleasures; एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः R.19.47. -सन्निकर्षः the contact of an organ of sense (either with its object or with the mind). -स्वापः insensibility, unconsciousness, stupor.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रिय mfn. fit for or belonging to or agreeable to इन्द्रRV. AV. VS.

इन्द्रिय m. a companion of इन्द्र(?) RV. i , 107 , 2 AV. xix , 27 , 1

इन्द्रिय n. power , force , the quality which belongs especially to the mighty इन्द्रRV. AV. VS. TS. AitBr. S3Br.

इन्द्रिय n. exhibition of power , powerful act RV. VS.

इन्द्रिय n. bodily power , power of the senses

इन्द्रिय n. virile power AV. VS. S3Br.

इन्द्रिय n. semen virile VS. Ka1tyS3r. MBh. etc.

इन्द्रिय n. faculty of sense , sense , organ of sense AV. Sus3r. Mn. Ragh. Kir. etc.

इन्द्रिय n. the number five as symbolical of the five senses. (In addition to the five organs of perception , बुद्धी-न्द्रियाणिor ज्ञाने-न्द्रियाणि, i.e. eye , ear , nose , tongue , and skin , the Hindus enumerate five organs of action , कर्मे-न्द्रियाणिi.e. larynx , hand , foot , anus , and parts of generation ; between these ten organs and the soul or आत्मन्stands मनस्or mind , considered as an eleventh organ ; in the वेदान्त, मनस्, बुद्धि, अहंकार, and चित्तform the four inner or internal organs , अन्तर्-इन्द्रियाणि, so that according to this reckoning the organs are fourteen in number , each being presided over by its own ruler or नियन्तृ; thus , the eye by the Sun , the ear by the Quarters of the world , the nose by the two अश्विन्s , the tongue by प्रचेतस्, the skin by the Wind , the voice by Fire , the hand by इन्द्र, the foot by विष्णु, the anus by मित्र, the parts of generation by प्रजापति, manas by the Moon , बुद्धिby ब्रह्मन्, अहंकारby शिव, citta by विष्णुas अच्युत; in the न्यायphilosophy each organ is connected with its own peculiar element , the nose with the Earth , the tongue with Water , the eye with Light or Fire , the skin with Air , the ear with Ether ; the जैनs divide the whole creation into five sections , according to the number of organs attributed to each being.)

"https://sa.wiktionary.org/w/index.php?title=इन्द्रिय&oldid=491900" इत्यस्माद् प्रतिप्राप्तम्