यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या, स्त्री, (उदन्यति उदकस्येच्छा वा । सुपः आत्मनः क्यच् । अशनायोदन्येति ईत्वाभावः क्यचि उदकस्योदन्मावोऽपिनिपात्यते । अप्रत्ययादित्यः ।) पिपासा । इत्यमरः ॥ (यथा छान्दोग्योपनिषदि । ६ । ८ । ५ । “अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनायः इत्येवं तत्तेज आचष्ट उदन्येति” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या स्त्री।

पिपासा

समानार्थक:उदन्या,पिपासा,तृष्,तर्ष,तृष्णा

2।9।55।2।1

सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्. उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या¦ स्त्री अतिगार्द्ध्येन उदकमिच्छति क्यजन्तात् अ।

१ पिपासायाम्।
“व्यस्यन्नुदन्यां शिशिरैः पयोभिः” भट्टिःबेदे॰ बा॰ नयनार्थेऽपि क्यच्।

२ उदकनयने च
“अथ-यत्रैतत्पुरुषः पिपासतिनाम तेज एव तत्पीतं नयतेतद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येव तत्तेज आचष्टउदन्येति” छा॰ उ॰ यथा च पुरुषस्य पिपासां भवतितद्भाष्ये समर्थितं यथा
“यत्र यस्मिन् काल एतन्नाम पिपासति पातुमिच्छतीतिपुरुषो भवति। अशिशिषतीतिवदिदमपि गौणमेव नामभवति। द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपोऽन्नशुङ्गदेहं क्लेदयन्त्यःशिथिलीकुर्य्युरब्बाहुल्याद्यदि तेजसा नगोष्यन्ते। नितराञ्च तेजसा शोष्यमाणास्वप्सु देह-भावेन परिणममानासु पातुमिच्छा पुरुषष्य जायतेतदा पुरुषः पिपासति नाम तदेतदाह। तेजएव तत्तदापीतमबादि शोपयेद्देहगतलोहितप्राणभावेन नयते परि-णमयति। तद्यथा गोनाय इत्यादि समानमेव। तत्तेजआचष्टे लोकः। उदन्येति उदकं नयतीत्युदन्या उदन्येतीति छान्दसम्”। पिपासा च प्राणस्य धर्म्मः यथाह[Page1138-a+ 38] शा॰ ति॰
“बुभुक्षा च पिपासा च प्राणस्य, मनसःस्मृतौ। शोकमोहौ, शरीरस्य जन्ममृत्यू, षडूर्मयः”। उद्नःअयम् उदन्य उदकसम्बन्धिनि त्रि॰
“विश्वा उदन्वयावर्षाधारा उदन्या इव” ऋ॰

२ ,

७ ,

३ ,
“उदन्या उदकस-म्बन्धिनी” भा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या¦ f. (-न्या) Thirst. E. उदक् water, क्यच् affix, the final क is changed to न।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्या f. want or desire of water , thirst ChUp. Ra1jat. Bhat2t2.

"https://sa.wiktionary.org/w/index.php?title=उदन्या&oldid=492520" इत्यस्माद् प्रतिप्राप्तम्