यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गवाक्षः, पुं, (गवामक्षीव । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इत्यच् । यद्वा, गावः रश्मयः अक्ष्णुवन्ति व्याप्नुवन्ति अनेन इति । अक्षू व्याप्तौ + अकर्त्तर्य्यर्थे घञ् ।) गवामक्षीव यः । जाना- लार जाली इति भाषा ॥ (यथा, रघुः । ७ । ७ । “उत्सृष्टलीलागतिरागवाक्षा- दलक्तकाङ्कां पदवीं ततान ॥”) तत्पर्य्यायः । वातायनम् २ । इत्यमरः । २ । २ । ९ ॥ बधूदृगयनम् ३ जालम् ४ जालकम् ५ । इति कोषान्तरम् । इति भरतः ॥ वानरविशेषः । इति मेदिनी । क्षे । ३५ ॥ स तु वैवस्वतपुत्त्रः । यथा, रामायणे । “पुत्त्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः । गयो गवाक्षो गवयः शरभो गन्धमादनः ॥”

"https://sa.wiktionary.org/w/index.php?title=गवाक्षः&oldid=131621" इत्यस्माद् प्रतिप्राप्तम्