वृक्षः

संस्कृतम् सम्पाद्यताम्

  • द्रुमः, वृक्षः, तरुः, पादपः, द्रुः, नगः, कुजः, अंह्रिपः, अगः, अद्रिः, अडरः, अनोकहः, अमन्दः, करालिकः, कर्कारः, कुरुहः, कुठारः, कुटिः, गच्छः, चङ्कुरः, चरणपः, जीवकः, जीर्णः, द्रुतः, धरणिजः, निर्मुटः, विद्रुः,विटपिः, भूपदः, महीजः, रोहिः, रुक्षः, वङ्गः, विटपकः, विष्टरः, शालसारः, शिङ्गः, हरिद्रुः, हरितच्छदः, कुटः, सामिकः।


नामः सम्पाद्यताम्

  • द्रुमः नाम वृक्षः। द्रुमः उन्नतः पादपः अस्ति। तरूणाम् रूक्षम् काष्ठकाण्डमस्ति। अनेके तरवः फलानि ददति। अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते। तरूणाम् पत्राणि CO2 जलम् च उपयुज्य O2 शर्करां च रचयन्ति। तरवः जनेभ्यः छायां यच्छन्ति। उक्तञ्च "छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव॥"

अनुवादाः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुमः, पुं, (समुदाये वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते इति न्यायात् द्रुः शाखा विद्यतेऽस्य । “द्युद्रुभ्यां मः ।” ५ । २ । १०८ । इति मः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥ (यथा, मनुः । ९ । २५५ । “निर्भयन्तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम् । तस्य तद्बर्द्धते नित्यं सिच्यमान इव द्रुमः ॥”) पारिजातः । कुवेरः । इति मेदिनी । मे, १५ ॥ (स्वनामख्यातः किम्पुरुषेश्वरः । यथा, महा- भारते । २ । १० । २८ । “द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम् ॥” सनामख्यातनृपविशेषः । स तु शिविनामदैत्य- स्यांशात् जातः । यथा, तत्रैव । १ । ६७ । ८ । “यस्तु राजन् ! शिविर्नाम दैतेयः परिकीर्त्तितः । द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥” रुक्मिणीगर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा, हरिवंशे । १६० । ६ । “चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एव च ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुमः [drumḥ], [द्रुः शाखास्त्यस्य-मः, cf. P.V.2.18]

A tree; यत्र द्रुमा अपि मृगा अपि बान्धवो मे U.3.8.

A tree of Paradise.

An epithet of Kubera. -Comp. -अब्जं the Karṇikāra tree; प्रययौ केतुमिव द्रुमाब्जकेतुम् -अरिः an elephant. -आमयः lac, gum. -आश्रयः a lizard.

ईश्वरः the palm tree.

the moon.

the पारिजात tree.-उत्पलः the Karṇikāra tree. द्रुमोत्पलः कर्णिकारः Ak.-खण्डः, -ण्डम् a group of trees. -नखः, -मरः a thorn.-निर्यासः a kind of frank-incense. -वासिन् m. an ape.-व्याघिः lac, gum. -श्रेष्ठः the palm tree. -षण्डम् a grove of tree.

"https://sa.wiktionary.org/w/index.php?title=द्रुमः&oldid=500412" इत्यस्माद् प्रतिप्राप्तम्