धूमकेतु अर्थ अग्नि अस्ति।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूमकेतुः, पुं, (धूमः केतुश्चिह्नं यस्य ।) अग्निः । (यथा, महाभारते । १ । १०३ । १७ । “प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्मताम् ॥”) उत्पातविशेषः । स धूमाभा तारका । इत्यमर- भरतौ ॥ (यथा, कुमारे । २ । ३२ । “भवल्लब्धवरोदीर्णस्तारकाक्षो महासुरः । उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥”) ग्रहभेदः । इति विश्वः ॥ * ॥ केतवश्च शिखा- वन्ति ज्योतींषि स्थिराण्युत्पातरूपाणि । तदु- दये कालाशुद्धिर्यथा, -- “धूमकेतौ समुत्पन्ने ग्रहणे चन्द्रसूर्य्ययोः । ग्रहाणां सङ्गरे चैव न कुर्य्यान्मङ्गलक्रियाम् ॥ उल्कापाते च त्रिदिनं धूमे पञ्च दिनानि च । वज्रपाते दिनञ्चैकं वर्ज्जयेत् सर्व्वकर्म्मसु ॥” इति गर्गवचनम् ॥ भोजराजः । “ग्रहे रवीन्दोर्द्धरणीप्रकम्पे केतूद्गमोल्कापतनादिदोषे । व्रते दशाहानि वदन्ति तज्ज्ञा- स्त्रयोदशाहानि वदन्ति केचित् ॥” वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः । प्रयाणन्तु त्यजेत् क्षत्त्रः सप्तरात्रमतःपरम् ॥ ब्राह्मणः क्षत्त्रियो वैश्यस्त्यजेत् कर्म्म त्रिरात्रकम् । शूद्रस्त्यक्त्वा चैकरात्रं सर्व्वकर्म्म समाचरेत् ॥” इति मलमासतत्त्वम् ॥ अथ केतूनां संस्थानम् । “शतमेकाधिकमेके सहसमपरे वदन्ति केतूनाम् । बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम् ॥” तथा च पराशरः । “शतमेकोत्तरं केतूनां भवन्ति तेषां षोडश मृत्युनिश्वासजाः । द्वादशादित्य- सम्भवाः । दश दक्षमखविलयने रुद्रक्रोधजाः । सप्त पैतामहाः । पञ्चदश वर्षे वौद्दालिकस्य पुत्त्राः । सप्तदश मरीचिकश्यपललाटजाः । पञ्च च प्राजापतिसहजाः । त्रयो विभाव- सुजाः । धूमोद्भवश्चैकः । चतुर्द्दश मथ्यमाने- ऽमृते सोमेन सह सम्भूताः । एकस्तु ब्रह्म- कोपजः ॥” * ॥ गर्गादयः सहस्रं वदन्ति । तथा च गर्गः । “अमित्योदयचाराणामशुभानाञ्च दर्शनम् । आगन्तॄणां सहस्रं स्याद्ग्रहाणां संनिबोध मे ॥” नारदाख्यो मुनिरेकमेव केतुं बहुरूपं प्राह । यथा, -- “दिव्यान्तरीक्षभौमस्थ एकः केतुः प्रकीर्त्तितः । शुभाशुभफलं लोके ददात्यस्तमयोदये ॥” तत्र धूमकेतुलक्षणम् । “उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः । इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥” “ह्रस्वतनुः प्रसन्न इत्यस्मादुक्तात् यो विपरीतो विशेषतः शक्रचापरूपकेतुरुत्पन्नः स धूमकेतुः स च न शुभकरः पापं करोतीत्यर्थः इन्द्रधनुः- सदृशो न शुभकर एव तथा द्बिशिखस्त्रि- शिखश्च विशेषतः पापफलदः । तथा च समय- संहितायाम् । अचिरस्थितोऽतिवृष्टस्त्वस्तमितः स्निग्धमूर्त्तिरुदगुदितः । ह्नस्वतनुः प्रसन्नः केतु- र्लोकस्याभावाय न शुभो विपरीतोः विशेषतः शक्रचापसङ्काशः । द्वित्रिचतुश्चूलो वा दक्षिण- संस्थश्च मृत्युकरः ।” इति भट्टोत्पलकृतवराह- संहिताटीका ॥ (अश्वविशेषः । यथा, नकुल- कृताश्ववैद्यके । ४ । २६ । “पुच्छदेशे यदावर्त्तो वाजिनः संप्रदृश्यते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥” तथाच युक्तिकल्पतरौ । “पृष्ठवंशे यदावर्त्त एकः संपरिलक्ष्यते । धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥” महादेवः । यथा, महाभारते । १३ । १७ । १०३ । “धन्वन्तरिर्धूमकेतुस्कन्दो वैश्रवणस्तथा ॥”)

अमरकोशः सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूमकेतु पुं।

उत्पातः

समानार्थक:धूमकेतु

3।3।58।2।1

पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ। अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, नक्षत्रम्

धूमकेतु पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

3।3।58।2।1

पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ। अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूमकेतु¦ पु॰ धूमः केतुर्लिङ्गमस्य।

१ वह्नौ अमरः

२ धूमाभ-तारकाभेदे उत्पातविशेषे केतुशब्दे दृश्यम्।
“उपप्लवायलोकानां धूमकेतुरिवोत्थितः” कुमा॰।

३ ग्रहभेदे विश्वःकेतुशब्दे

२२

३० पृष्ठादौ दृश्यम्।
“केतुना धूमकेतोस्तुनक्षत्राणि त्रयोदश। भरण्यादीनि भिन्नानि नानुयान्तिनिशाकरम्” हरिवं॰

८० अ॰।

शब्दसागरः सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूमकेतु¦ m. (-तुः)
1. A comet or falling-star.
2. Fire.
3. The personified descending node. E. धूम smoke, and केतु a mark or symbol.

Monier-Williams सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूमकेतु/ धूम--केतु mfn. ( म-)having -smsmoke as banner or sign ( अग्निRV. ; the sun MBh. )

धूमकेतु/ धूम--केतु m. fire MBh.

धूमकेतु/ धूम--केतु m. a comet or falling star ib. Hariv. Ka1v. etc.

धूमकेतु/ धूम--केतु m. the personified descending node W.

धूमकेतु/ धूम--केतु m. N. of the sun MBh.

धूमकेतु/ धूम--केतु m. of a यक्षKatha1s. w.r. for धूम्र-क्.

Purana Encyclopedia सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Dhūmaketu : m.: A comet; or planet Rāhu (?); according to Nī., name of a subordinate planet (upagraha).

Among the bad omens which betokened the annihilation of the Kauravas, and which were pointed out by Vyāsa to Dhṛtarāṣṭra, one was related to a very fierce comet taking hold of the Puṣya constellation (abhāvaṁ hi viśeṣeṣṇa kurūṇāṁ pratipaśyati/dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati//) 6. 3. 12; (mahāghora dhūmaketu may stand for Rāhu, cf. 6. 3. 26 where a tīvragraha which very probably means Rāhu, is compared to dhūmaketu; according to Nī. on Bom. Ed. 6. 3. 13 Dhūmaketu is a particular upagraha (upagrahaviśeṣaḥ); he looks upon both Rāhu and Ketu as subordinate planets, cf. his Comm. on Bom. Ed. 6. 17. 2). [See Rāhu ]

_______________________________
*2nd word in right half of page p255_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

"https://sa.wiktionary.org/w/index.php?title=धूमकेतु&oldid=500490" इत्यस्माद् प्रतिप्राप्तम्