संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीतिः, स्त्री, (प्रीञ् तर्पणे + भावे क्तिन् ।) तृप्तिः । (यथा, रामायणे । १ । ६८ । १२ । “प्रतिज्ञां मम राजेन्द्र ! निर्वर्त्तयितुमर्हसि । पुत्त्रयोरुभयोरेव प्रीतिं त्वसुपलप्स्यसे ॥”) तत्पर्य्यायः । मुत् २ प्रमदः ३ हर्षः ४ प्रमोदः ५ आमोदः ६ सम्मदः ७ आनन्दथुः ८ आनन्दः ९ शर्म्म १० सातम् ११ सुखम् १२ । इत्यमरः । १ । ४ । २४ ॥ केचिचु । मुदादिसप्तकं प्रीतौ । आनन्दथ्वादिपञ्चकं सुखे इत्याहुः इति भरतः ॥ इष्टदर्शनजन्यं सुखम् । इति मोक्षधर्म्मे नील- कण्ठः ॥ कामपत्नी । इति मेदिनी । ते, ३४ ॥ सा पुरा अनङ्गवती वेश्या आसीत् विभूतिद्बादशी- व्रतं कृत्वा रत्याः सपत्नी जाता । यथा, -- “वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम् । समाप्य माघमासस्य द्वादश्यां लवणाचलम् ॥ निवेदयन्ती गुरवे शय्याञ्चोपस्करान्विताम् । अलंकृत्य हृषीकेशं सौवर्णामरपादपम् ॥ सा चानङ्गवती वेश्या कामदेवस्य साम्प्रतम् । पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता ॥” इति मात्स्ये ८२ अध्यायः ॥ विष्कम्भादिसप्तविंशतियोगान्तर्गत द्बितीययोगः । तत्र जातफलम् । “प्रसूतिकाले यदि प्रीतियोगो नरो ह्यरोगः सुखवान् विनोदी । रक्तानुरक्तो विदुषां प्रपन्नः संप्रार्थितो यच्छति वित्तमेव ॥” इति कोष्ठीप्रदीपः ॥ प्रेम । इति मेदिनी । ते, ३४ ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीतिः [prītiḥ], [प्री भावे क्तिच्] f. Pleasure, happiness, satisfaction, delight, gladness, joy, gratification; निहत्य धार्त- राष्ट्रान् नः का प्रीतिः स्याज्जनार्दन Bg.1.36; Bhāg.1.23.32. भुवनालोकनप्रीतिः Ku.2.45;6.21; R.2.51; Me.64.

Favour, kindness.

Love, affection, regard; प्रीतिप्रमुख- वचनं स्वागतं व्याजहार Me.4,16; R.1.57;12.54.

Liking or fondness for, delight in, addiction to; द्यूत˚, मृगया˚.

Friendliness, amity.

Conciliation.

A symbolical expression for the letter ध.

N. of a wife of Cupid and rival of Rati; (स चानङ्गवती वेश्या कामदेवस्य सांप्रतम् । पत्नी, सपत्नी संजाता रत्याः प्रीतिरिति श्रुता ॥ Matsya P.).

Longing (अभिलाषा); प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते । Rām.2.1.36-37.

N. of a श्रुति.

The 2nd of the 27 astrological Yogas. -Comp. -कर a. producing love, kind, agreeable.-कर्मन् n. an act of friendship or love, a kind action.-च्छेदः destruction of joy; Mk. -जुषा N. of the wife of अनिरुद्ध. -तृष् m. N. of cupid. -द a. inspiring love; giving pleasure, pleasing. (-दः) a jester or buffoon in a play. -दत्त a. given through affection. (-दत्तम्) property given to a female by her relatives, particularly by her father-in law or mother-in-law at the time of marriage; प्रीत्या दत्तं तु यत् किंचित् श्वश्र्वा वा श्वशुरेण वा । पाद- वन्दनिकं चैव प्रीतिदत्तं तदुच्यते ॥ Kātyāyana. -दानम्, -दायः a gift of love, a friendly present; तदवसरो$यं प्रीतिदायस्य Māl.4; R.15.68. -धनम् money given through love or friendship. -पात्रम् an object of love, any beloved person or object. -पुरोग a. affectionate, loving. -पूर्वम्, पूर्वकम्ind. kindly, affectionately. -प्रमुख a. friendly, affectionate, full of love, kind; Me.4. -भाज् a.

enjoying friendship, loved.

Contented; स्तनभरनमिताङ्गीरङ्गनाः प्रीति- भाजः Ki.6.47. -मनस् a.

delighted in mind, pleased, happy.

kind, affectionate. -मय a. arising from love or joy. -युज् a. dear, affectionate, beloved; सखीनिव प्रीति- युजो$नुजीविनः Ki.1.1.

रसायनम् a collyrium made of love; मित्रं प्रीतिरसायनं नयनयोः H.183.

Any nectar-like beverage causing joy. -वचस् n., -वचनम् a friendly or kind speech. -वर्धन a. increasing love or joy. (-नः) an epithet of Viṣṇu; प्रियकृत् प्रीतिवर्धनः Viṣṇusahasranāma.-वादः a friendly discussion. -विवाहः a love-marriage, love-match (based purely on love). -श्राद्धम् a sort of Śrāddha or obsequial ceremony performed in honour of the manes of both parents. -संयोगः relation of friendship. -संगतिः friendly alliance. -स्निग्ध a. moist or wet through love (as the eyes).

"https://sa.wiktionary.org/w/index.php?title=प्रीतिः&oldid=503029" इत्यस्माद् प्रतिप्राप्तम्