यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदनः, पुं, (मदयतीति । मद् + णिच् ल्युः ।) कामदेवः । इत्यमरः । १ । १ । २६ ॥ तस्य नाम्नां व्युत्पत्तिर्यथा । ऋषय ऊचुः । “यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः । तस्मान्मन्मथनाम्ना त्वं लोके गेयो भविष्यसि ॥ जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ! ॥ मदनान्मदनाख्यस्त्वं शम्भोर्दर्पात् सदर्पकः । तथा कन्दर्पनाम्नापि लोके ख्यातो भविष्यसि ॥” इति कालिकापुराणे २ अध्यायः ॥ ब्रह्मणस्तस्योत्पत्तिर्यथा, -- “प्रहृष्टमानसः पुत्त्रं कन्यैकाञ्च ससर्ज्ज ह । हृष्टस्य कामिनः पुत्त्रः कामदेवो बभूव ह ॥ कन्या षोडशवर्षीया रत्नभूषणभूषिता ॥ उवाच पुत्त्रं स विधिः सुदीप्तं पुरतः स्थितम् । दुर्न्निवार्य्यं मत्कलांशं स्वात्मारामं मनोहरम् ॥ ब्रह्मोवाच । स्त्रीपुंसोः क्रीडनार्थाय मुदा त्वञ्च विनिर्म्मितः । हृदि योगेन सर्व्वेषामधिष्ठानं करिष्यसि ॥ सम्मोहनं समुद्वेगबीजं स्तम्भितकारणम् । उन्मत्तबीजं ज्वलनं शश्वच्चेतनहारकम् ॥ प्रगृह्यैतान्मया दत्तान् सर्व्वान् सम्मोहनं कुरु । दुर्निवार्य्यो मम वराद्भव वत्स ! भवेषु च ॥ बाणान्दत्त्वैवमुक्त्वा च प्रहृष्टश्च जगद्बिधिः । दृष्ट्वा वाचं दुहितरं वरं दातुं समुद्यतः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३५ अध्यायः ॥ (योगाचार्य्यरूपः शिवस्यावतारविशेषः । यथा, शिवपुराणे वायुसंहितायाम् । २ । १० । १ -- २ । श्रीकृष्ण उवाच । “युगावर्त्तेषु सर्वेषु योगाचार्य्यछलेन तु । अवताराणि सर्वस्य शिष्यांश्च भगवन् ! वद ॥” उपमन्युरुवाच । “श्वेतः सुतारो मदनः सुहोत्रः कंक एव च ॥” महादेवः । मदयति भक्तानां मनः इति मद + ल्युः । मनसि आनन्दजनकत्वादस्य तथा- त्वम् । यथा, महाभारते । १३ । १७ । ६९ । “उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥” मत्तता । वरारोहाणां कामिनीनां भावविशेषः इति यावत् । यथा, महाभारते । ३ । ४६ । १३ । “सीधुपानेन चाल्पेन तुष्टाथ मदनेन च । विलासनैश्च विविधैः प्रेक्षणीयतराभवत् ॥”) वसन्तः । धुस्तूरः । सिक्थकम् । इति मेदिनी । मे । १०३ ॥ वृक्षभेदः । मयना इति भाषा । तत्पर्य्यायः । पिचुकः २ मुचुकुन्दः ३ कण्टकी ४ । इति रत्नमाला ॥ पिण्डीतकः ५ । (तथाचास्य पर्य्यायान्तरं गुणाश्च । “मदनः छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा । करहाटी मरुवकः शल्यको विषपुष्पकः ॥ मदनो मधुरस्तिक्तो वीर्य्योष्णो लेखनो लघुः । वान्तिकृद्विद्रधिहरः प्रतिश्यायव्रणान्तकः ॥ रूक्षः कुष्ठकफानाहशोथगुल्मव्रणापहः ॥” धुस्तूरार्थे पर्य्यायो यथा, -- “धत्तूरधूर्त्तधुत्तूरा उन्मत्तः कनकाह्वयः । देवता कितवस्तूरी महामोहः शिवप्रियः ॥ मातुलो मदनश्चास्य फले मातुलपुत्त्रकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मरुवकः ६ श्वसनः ७ करहाटकः ८ शल्यः ९ । इत्यमरः । २ । ४ । ५२ -- ५३ ॥ भ्रमरः । इति जटाधरः ॥ माषः । इति हेमचन्द्रः ॥ खदिरवृक्षः । इति शब्दचन्द्रिका ॥ मङ्कोठ- वृक्षः । वकुलवृक्षः । वृक्षविशेषः । मयना- फल इति भाषा । तत्पर्य्यायः । शल्यः २ कैटर्य्यः ३ पिण्डः ४ धाराफलः ५ तगरः ६ करहाटः ७ पिण्डीतकः ८ श्वसनः ९ मरु- वकः १० । अस्य गुणाः । वमिकारकत्वम् । तिक्तत्वम् । उष्णवीर्य्यत्वम् । लेखनत्वम् । लघुत्वम् । रूक्षत्वम् । कुष्ठकफानाहशोफगुल्मब्रणापहत्वञ्च । इति राजनिर्घण्टः ॥ आलिङ्गनविशेषः । तल्ल- क्षणम् । नायको नायिकायाः कण्ठे हस्तं दत्त्वा द्वितीयहस्तं तस्या मध्यदेशे दत्त्वा यदाश्लिषति । इति कामशास्त्रम् ॥ (“अथ मयनम् ।” मम् इति भाषा । “मयनन्तु मधूच्छिष्टं मधुशेषञ्च सिक्थकम् । मध्वाधारो मदनकं मधूषितमपि स्मृतम् ॥ मदनं मृदुसुस्निग्धं भूतघ्नं ब्रणरोपणम् । भग्नतन्धानकृद्वातकुष्ठवीसर्परक्तजित् ॥” इति च भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे ॥ मण्डलिसर्पान्तर्गतसर्पविशेषः ॥ “शिशुको मदनः पालिंहिरः इत्यादि ।” इति मुश्रुते कल्पस्थाने चतुर्थेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदन पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।25।1।1

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

मदन पुं।

मयनफलवृक्षः

समानार्थक:पिण्डीतक,मरुबक,श्वसन,करहाटक,शल्य,मदन

2।4।53।1।2

शल्यश्च मदने शक्रपादपः पारिभद्रकः। भद्रदारु द्रुकिलिमं पीतदारु च दारु च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

मदन पुं।

धत्तूरः

समानार्थक:उन्मत्त,कितव,धूर्त,धत्तूर,कनकाह्वय,मातुल,मदन

2।4।78।1।2

मातुलो मदनश्चास्य फले मातुलपुत्रकः। फलपूरो बीजपूरो रुचको मातुलुङ्गके॥

अवयव : धत्तूरफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदन¦ पु॰ माद्यत्यनेन मद करणे ल्युट्।

१ कामदेवे अमरः।

२ सुरायां हेमच॰।

३ वसन्ते काले

४ सिक्थके

५ धुस्तूरे चपु॰ मेदि॰। (मयना)

६ वृक्षभेदे रत्नमाला।

७ भ्रमरेजटा॰ माषे

८ कलायभेदे हेमच॰।

९ खदिरवृक्षे शब्दच॰

१० अङ्कोटकवृक्षे

११ बकुलवृक्षे (मयनफल)

१२ वृक्षभेदे चराजनि॰।

१३ आलिङ्गनभेदे कामशास्त्रम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदन¦ m. (-नः)
1. KAMADE4VA, the Hindu CUPID.
2. The season of spring.
3. A plant commonly Mayana4, (Vangueria spinosa.)
4. Thorn-apple, (Dhu4tu4ra metel.)
5. A bee.
6. A sort of bean, (Pha- seolus radiatus.)
7. Bee's wax.
8. A tree, (Mimosa eatechu.)
9. A kind of embrace. f. (-ना-नी)
1. Spirituous or vinous liquor.
2. De- lighting, E. मद् to exhilarate or rejoice, aff. ल्युट्, fem. aff. टाप्, or ङीष् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदन [madana], a. (-नी f.) [माद्यति अनेन, मद्-करणे ल्युट्]

Intoxicating, maddening.

Delighting, exhilarating.

नः The god of love, Cupid; व्यापाररोधि मदनस्य निषेवितव्यम् Ś.1.27; हतमपि निहन्त्येव मदनः Bh.3.18.

Love, passion, sexual love, lust; विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः Ś.2.11; सतन्त्रिगीतं मदनस्य दीपकम् Ṛs.1.3; R.5.63; so मदनातुर, मदनपीडित &c.

The spring season.

A bee.

Bees'-wax.

A kind of embrace.

The Dhattūra plant.

The Khadira tree.

The Bakula tree.

N. of the 7th mansion (in astrol.).

A kind of measure (in music).

ना, नी Spirituous liquor.

Musk.

The atimukta creeper. (नी only in these two senses).

नम् Intoxicating.

Gladdening, delighting. -Comp. -अग्रकः a species of grain (कोद्रव).

अङ्कुशः the penis.

a finger-nail, or a wound inflicted by it in cohabitation. -अत्ययः excess of intoxication; मद्येन खलु जायन्ते मदात्ययमुखा गदाः Bhāva. P. -अन्तकः, -अरिः, -दमनः, -दहनः, -नाशनः, -रिपुः epithets of Śiva. -अवस्थ a. in love, enamoured.-आतपत्रम् the vulva. -आतुर, -आर्त, -क्लिष्ट, -पीडित a. afflicted by love, smit with love, love-sick; रावणावरजा तत्र राघवं मदनातुरा (अभिपेदे) R.12.32; Ś.3.13.

आयुधम् pudendum muliebre.

'Cupid's missle', said of a very lovely woman.

आलयः, यम् pudendum muliebre.

a lotus.

a king. -आशयः sexual desire.-इच्छाफलम् a kind of mango. -उत्सवः the vernal festival celebrated in honour of Cupid. (-वा) anapsaras. -उत्सुक a. pining or languid with love.-उद्यानम् 'a pleasure-garden', N. of a garden.

कण्टकः erection of hair caused by the feeling of love.

N. of a tree. -कलहः 'love's quarrel', sexual union; ˚छेद- सुलभाम् Mal.2.12. -काकुरवः a dove or pigeon. -गृहम् pudendum muliebre. -गोपालः an epithet of Kṛiṣṇa.-चतुर्दशी the fourteenth day in the bright half of Chaitra, or the festival celebrated on that day in honour of Cupid. -तन्त्रम् the science of sexual love.-त्रयोदशी the thirteenth day in the bright half of Chaitra, or the festival celebrated on that day in honour of Cupid. -द्वादशी a festival in honour of Cupid on the 12th day of the bright half of Chaitra.-ध्वजा the पौर्णिमा day of Chaitra month. -नालिका a faithless wife. -पक्षिन् m. the Khañjana bird. -पाठकः the cuckoo. -पीडा, -बाधा pangs or torments of love.-महः, -महोत्सवः a festival celebrated in honour of Cupid; मदनमहोत्सवाय रसिकमनांसि समुल्लासयन् Dk.2.5.-मोहनः an epithet of Kṛiṣṇa. -रसः poison; मदनरस- योगेनातिसन्धाय अपहरेत् Kau. A.1.15. -ललितम् amorous sport or dalliance. -ललिता N. of a metre; वेदाङ्गाङ्गैर्मदन- ललिता मो भो नमलसाः V. Ratna. (com.). -लेखः a loveletter. -वश a. influenced by love, enamoured. -विनोदः N. of a medical vocabulary attributed to मदनपाल.

शलाका the female of the cuckoo.

an aphrodisiac.

the female parrot (also मदनसारिका). -संदेशः a message of love.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदन m. ( ifc. f( आ). )passion , love or the god of love MBh. Ka1v. etc.

मदन m. a kind of embrace L.

मदन m. the season of spring L.

मदन m. a bee L.

मदन m. (?) bees-wax(See. पट्टिका)

मदन m. Vanguiera Spinosa Sus3r.

मदन m. a thorn-apple and various other plants( e.g. Phaseolus Radiatus , Acacia Catechu etc. ) L.

मदन m. a bird L.

मदन m. (in music) a kind of measure Sam2gi1t.

मदन m. (in astrol. ) N. of the 7th mansion Var.

मदन m. N. of various men and authors (also with आचार्य, भट्ट, सरस्वतीetc. ; See. below) Ra1jat. Inscr. Cat.

मदन n. the act of intoxicating or exhilarating MW.

मदन n. ( scil. अस्त्र) , N. of a mythical weapon R. ( v.l. मादन)

मदन n. bees-wax L.

मदन mfn. = मन्द्रNir.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of काम, God of Love: also Makaradhvaja (s.v.); फलकम्:F1:  भा. XI. 4. 8.फलकम्:/F created by ब्रह्मा when he looked at महालक्ष्मी after praying to जनार्दन; was given the flower dart and the sugarcane bow; Hari blessed him with all con- quest and no defeat; फलकम्:F2:  Br. IV. 8. २४-9; ११. 7.फलकम्:/F performed सौभाग्य--शयनम्; फलकम्:F3:  M. ६०. ४९.फलकम्:/F at the request of the Devas and persecuted by तारक, Madana took courage and secretly entered शिव's abode; the latter grew angry and burnt him with his third eye; फलकम्:F4:  Br. IV. ११. २८.फलकम्:/F remembered by Indra, went to him and was ordered to create sexual desire in शिव; he got frightened at शिव's third eye, but pressed by Indra he agreed to meet the Lord and sent his arrow of Mohana when Siva's third eye burnt him down; Rati wept with Madhu or Spring and both went to शिव; Rati praised him for grace; शिव replied that Madana would attain fame as Ananga in the world sometime hence. फलकम्:F5:  M. १५४. २१२-51, २६०-70.फलकम्:/F
(II)--the seventh son of देवकी. M. ४६. १९.
"https://sa.wiktionary.org/w/index.php?title=मदन&oldid=503354" इत्यस्माद् प्रतिप्राप्तम्