यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसम्, क्ली, (मन्यते इति । मनज्ञाने + “मने- र्दीर्घश्च ।” उणा० ३ । ६४ । इति सः दीर्घश्च ।) रक्तजधातुविशेषः । मास् इति भाषा ॥ स तु गर्भस्थबालकस्याष्टभिर्मासैर्भवति । इति सुख- बोधः ॥ भागवतमते चतुभिर्मासैर्भवति । तत्प- र्य्यायः । पिशितम् २ तरसम् ३ पललम् ४ क्रव्यम् ५ आमिषम् ६ पलम् ७ । इत्यमरः । २ । ६ । ६३ ॥ अस्रजम् ८ जाङ्गलम् ९ कीरम् १० । सर्व्वसांस- गुणाः । वातनाशित्वम् । वृष्यत्वम् । बल्य- त्वम् । रुच्यत्वम् । बृंहणत्वम् । देशस्थानसात्म्य- संस्थास्वभावैर्भूयो नानारूपत्वञ्च ॥ * ॥ प्रसह- भूशयानूपवारिजवारिचारिमांसगुणाः । गुरु- त्वम् । उष्णत्वम् । मधुरत्वम् । स्निग्धत्वम् । वातघ्नत्वम् । शुक्रवर्द्धनत्वञ्च ॥ * ॥ विष्किर- प्रतुदजाङ्गलमांसगुणाः । लघुत्वम् । शीतत्वम् । मधुरत्वम् । कषायत्वम् । नृणां हितत्वञ्च ॥ * ॥ अङ्गविशेषमांसगुणाः । ‘एकदेहेऽपि पूर्ब्बार्द्धं मृगाणां पक्षिणां परम् । सर्व्वेषाञ्च शिरस्कन्धप्लीहचर्म्मयकृद्गुदम् ॥ पादपुच्छान्तमस्तिष्कमुष्कक्रोडाश्च मेहनाः । धातवः शोणिताद्याश्च गुरवः स्युर्य्यथोत्तरम् ॥’ प्रशस्ताप्रशस्तमांसं यथा, -- ‘वयस्थं निर्व्विषं सद्योहतं मांसं प्रशस्यते ॥ मृतञ्च व्याधितं व्युष्टं वृद्धं बालं विषैर्हतम् । अगोचरहतं व्याडसूदितं मांसमुत्सृजेत् ॥’ अष्टविधा मांसयोनिर्यथा । प्रसहाः १ प्रसह्य- भक्षणात् कुररश्येनादयः । भूशयाः २ विल- शायित्वात् नकुलगोधादयः । आनूपाः ३ खड्गमहिषवराहादयः । जलजाः ४ कुम्भीरा दयः । जलेचराः ५ हंसवकप्रभृतयः । जाङ्गलाः ६ हरिणच्छागादयः । विष्किराः ७ विकीर्णचरणात् तित्तिरमयूरकुक्कुटादयः । प्रतुदाः ८ प्रतुद्यचरणात् कपोतपारावतादयः । इति राजनिर्घण्टः ॥ * ॥ अपि च । ‘मांसं वातहरं सर्व्वं बृंहणं बलपुष्टिकृत् । प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः ॥’ * ॥ अथ तद्भेदाः । ‘मांसवर्गो द्बिधा ज्ञेयो जाङ्गलानूपभेदतः ॥’ तत्र जाङ्गलस्य लक्षणं गुणाश्च । ‘मांसवर्गोऽत्र जङ्घाला विलस्थाश्च गुहाशयाः । तथा पर्णमृगा ज्ञेया विष्किराः प्रतुदा अपि ॥ प्रसहा अथच ग्राम्या अष्टौ जाङ्गलजातयः । जाङ्गला मधुरा रूक्षास्तुवरा लघवस्तथा ॥ बल्यास्ते बृंहणा वृष्या दीपना दोषहारिणः । मत्स्यमांसोपहारेण दद्यान्नैवेद्यमुत्तमम् । तेनैव विधिनान्नन्तु स्वयं भुञ्जीत नान्यथा ॥ याज्ञवल्क्यः । ‘प्राणात्यये तथा श्राद्धे प्रोक्षितं द्बिजकाम्यया । देवान् पितॄन् समभ्यर्च्च्य खादन् मांसं न दोषभाक् ॥’ यमः । ‘भक्षयेत् प्रोक्षितं मांसं सकृत् ब्राह्मणकाम्यया । दैवे नियुक्तः श्राद्धे वा नियमे च विवर्ज्जयेत् ॥’ इति तिथ्यादितत्त्वम् ॥ * ॥ भाक्तामिषं यथा, -- ‘गोवर्ज्ज्यमामिषं क्षीरं फले जम्बीरमामिषम् । आमिषं रक्तशाकञ्च सर्व्वञ्च दग्धमामिषम् ॥’ गोवर्ज्ज्यमामिषं क्षीरमित्यत्र पत्राणामामिषं पर्णमिति च पाठः । इति कर्म्मलोचनः ॥ (अस्योत्पत्तिर्यथा, -- ‘रसाद्रक्तं ततो मांसं मांसान् मेदः प्रजायते ॥’ इति सुश्रुते सूत्रस्थाने १४ अध्याये ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मांसम् [māṃsam], [मन्-स दीर्घश्च Uṇ.3.64] Flesh, meat; समांसो मधुपर्कः U.4. (The word is thus fancifully derived in Ms.5.55: मां स भक्षयिता$मुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥).

The flesh of fish.

The fleshy part of a fruit.

सः A worm.

N. of a mixed tribe, selling meat.

Time. -Comp. -अद्, -अद, -आदिन्, -भक्षक a. flesh-eating, carnivorous (as an animal); अद्य तर्प्स्यन्ति मांसादाः Bk. 16.29; Ms.5.15. -अरिः N. of a plant (Mar. चुका).-अर्गलः, -लम् a piece of flesh hanging down from the mouth. -अर्बुदः, -दम् a kind of disease of the membrum virile.

अशनम् flesh-meat.

flesh-eating. -अष्टका N. of the eighth day in the dark half of Māgha.-आहारः animal food. -इष्टा a kind of bird (वल्गुला).-उपजीविन् m. a dealer in flesh.

ओदनः a meal of flesh.

rice boiled with flesh. -कच्छपः a fleshy abscess on the palate. -कन्दी a swelling of the flesh.-कामः fond of flesh; P.III.2.1; Vār.7. -कारिन् n. blood. -कीलः a tumour, wart. -क्षयः the body. -ग्रन्थिः a gland. -जम्, -तेजस् n. fat, adeps. -तानः a polypus in the throat. -दृश् a. seeing superficially (चर्मचक्षुस्); मा प्रत्यक्षं मांसदृशां कृषीष्ठाः Bhāg.1.3.28. -द्राविन् m. a kind of sorrel. -निर्यासः the hair of the body. -पः a Piśācha or demon. -पचनम् a vessel for cooking meat.-परिवर्जनम् abstaining from flash; न तत्फलमवाप्नोति यन्मांसपरिवर्जनात् Ms.5.54. -पाकः kind of disease (destroying the membrum virile).

पिटकः, कम् a basket of flesh.

a large quantity of flesh. -पित्तम्, -लिप्तम् a bone.

पेशी a muscle.

a piece of flesh.

an epithet of the fœtus from the 8th to the 14th day. -प्ररोहः a fleshy excrescence. -फला the egg plant.-भेत्तृ, -भेदिन् a. cutting the flesh; Ms.8.284. -मासा N. of a plant (Mar. रानउडीद, माषपर्णी). -योनिः a creature of flesh and blood.

रसः soup.

blood.-रोहिणी N. of a fragrant medicinal plant. -लता a wrinkle. -विक्रयः sale of meat. -शोणित a. flesh and blood; मांसशोणितभोजने. -सारः, -स्नेहः fat. -हासा skin.

"https://sa.wiktionary.org/w/index.php?title=मांसम्&oldid=503477" इत्यस्माद् प्रतिप्राप्तम्