यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्म, [न्] क्ली, (न कर्म्म । नञ्समासः ।) अक- रणीयकार्य्यं । यथा, -- “किं कर्म्म किमकर्म्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ कर्म्मणो ह्यपि बोद्धव्यं बोद्धव्यञ्च विकर्म्मणः । अकर्म्मणश्च बोद्धव्यं गहना कर्म्मणो गतिः ॥ कर्म्मण्यकर्म्म यः पश्येदकर्म्मणि च कर्म्म यः । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्म्मकृत्” ॥ इति श्रीभगवद्गीतायां ४ अध्याये १६ । १७ । १८ श्लोकाः ॥ (अप्रशस्तं कर्म्म । कर्म्माभावः । दुष्कर्म्म ।)

"https://sa.wiktionary.org/w/index.php?title=अकर्म्म&oldid=109739" इत्यस्माद् प्रतिप्राप्तम्