यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षा, स्त्री, (आङ् + काङ्क्षि + अच् + टाप् ।) इच्छा । अभिलाषः । इत्यमरः ॥ (रमणीयवस्तु- स्पृहा । यदुक्तं साहित्यदर्पणे ।) “आकाङ्क्षा रमणीयत्वात् वस्तुनो या स्पृहा तु सा” । अपेक्षा । जिज्ञासा । अनुसन्धानं । यथा पदा- ङ्कदूते, -- “नाकाङ्क्षा किं भवति विपुलश्रीमतोऽर्थान्तरेषु” ।) न्यायमते । यत्पदमृते यत्पदान्वयबोधो न भवति तत्पदे तत्पदवत्ता । प्रतीतिपर्य्यवसानविरहः । इत्या- लङ्कारिकाः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षा¦ स्त्री आ + काङ्क्ष--अङ्।

१ अभिलाषे, न्यायमते

२ वाक्यार्थज्ञानहेतौ यत्पदं विना यत्पदस्यानन्वयस्तत्पदेतत्पदवत्त्वरूपे, संबन्धे

३ पदान्तरव्यतिरेकेणान्वयाभावे च
“यत्पदेन विना यस्यानुभावकता भवेत् आकाङ्क्षा” भाषा॰शब्दचिन्ताणौ तु
“अथ केयमाकाङ्क्षेत्याक्षिप्य
“उच्यते अभि-धानापर्य्यवसानमाकाङ्क्षेति” लक्षयित्वा स्वयमेव तद्विवृतंयथा
“यस्य येन विनास्वार्थान्वयाननुभावकत्वं तस्य तदपर्य्यसानं ना-म, विभक्तिधात्वाख्यातक्रियाकारकपदानां परस्परं विना पर-स्परस्य न स्वार्थान्वयानुभावकत्वम्। परमते नीलोघटोनास्तीतिनीलं घटमानयेत्यादौ नामार्थानां कारकाणाञ्च न पर-स्परमन्वयबोघः। विशेषणान्वितविभक्त्यर्थानन्वयादिति वि-शिष्टवैशिष्ट्येनैवान्वयः। किन्त्वार्थः समाजः। अस्माकन्तुनीलघटयोरभेदानुभवबलादभेद एव संसर्गः। विशेषणविभक्तिःसाधुत्वार्था। यद्वा समानविभक्तिकयोरभेदानुभवबला-द्विशेषणान्वितविभक्तेरभेदार्थकत्वम् अतोविशेषणविशेष्यभा-वानुभावकत्वं तत्तत्पदयीर्न परस्परं विना। द्वारमित्यध्या-हारं विना प्रतियोग्यलाभान्न स्वार्थान्वयानुभावकत्वम् विश्व-जिता यजेत” मयेदं कार्य्य मिति प्रवर्त्तकं तात्पर्य्यविषयज्ञानंनाधिकारिणं विनेति तदाकाङ्क्षा। यद्वा कर्त्तुरिवाधिका-रिणोऽप्याक्षेपादेव लाभ इति तदन्वयोन शाब्दः किन्त्वानु-मानिकः। गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापि-तस्वाप्यध्याहृतस्येवेतरपदं विना नानुभावकत्वम् घटः कर्मत्व-मानयनं कृतिरित्यादावभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत्पदेभ्यस्तात्पर्य्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरंविनैव घटमानयतीत्यत्रेव क्रमेण तथान्वयतात्पर्य्येऽपिक्रियाकारकभावेन नान्वयबोधः नामविभक्तिधात्वा-ख्यातक्रियाकारकपदार्थानामन्वयबोधे तान्येव समर्थानिन तु तदर्थकानि पदान्तराणि अग्निः करणत्वमोदनःकर्म्मता पाकः कृतिरिष्टसाधनता इति पदेभ्योऽग्निनौ-दनं पचेतेत्यत्रेवान्वयाबोधनात् अग्निकरणकौदनकर्मक-पाकविषयकृतिरिष्टसाधनमिति वाक्यं न पदम्। अतएवद्वारभित्यत्र पिधेहीति पदाध्याहारः। क्रियापदार्थस्यान्यत[Page0589-b+ 38] उपस्थितावपि कारकानन्वयात्। असामर्थ्यन्तु स्वभावात्। अनासन्नमप्यासन्नदशायामासन्नभ्रमेणैवान्वयबोधसमर्थमेव। व-ह्निना सिञ्चतीत्यत्र क्रियाकारकपदयोरन्वयबोधसामर्थ्ये-ऽप्ययोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याग्नेर्मणिरिव। अतएव योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः। न हि स्वभावतोऽसमर्थमारोपितसामर्थ्यमिह भवति पचति-वेति प्रकृते तु पदार्थस्वरूपज्ञानं न त्वन्वयभ्रमोऽपि। पुरु-षपदं विनापि राज्ञ इत्यस्य पुत्रेण समं स्वार्थानुभावकत्वमितिन तदाकाङ्क्षा यद्वा त्रयाणां स्मरणेऽजनितान्वयबोध-दशायां पुरुषान्वयतात्पर्य्याभावान्नान्वयबोध इत्यग्रेऽपितथा। न च पुत्रस्योत्थिताकाङ्क्षत्वात्तेनैवान्वयबोध इतिवाच्यं तात्पर्य्यवशात् क्वचित् पुरुषेणैव प्रथमसन्वयबोधात्अतएवान्वयबोधसमर्थत्वे सत्यजनिततात्पर्य्यविषयान्वय-बोधकत्वमाकाङ्क्षेति केचित्। प्रकृतिपत्ययाभ्यामन्वयबोधेजनितेऽपि वाक्यैकवाक्यतावत् क्रियाकारकपदयोरजनिता-न्वयबोधकत्वमाकाङ्क्षा। नव्यास्तु पदविशेषजन्या पदार्थो-पस्थितिः, घटः कर्मत्वमानयनं कृतिरित्येवंविधपदाजन्य-पदार्थोपस्थितिर्वासत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवंविघशब्दान्नान्वयबोधः त्वयाप्येवंविधपदार्थोपस्थितेना-काङ्क्षाहेतुत्वेनावश्यमुपेयत्वात् जनितान्वयबोधान्नान्वया-न्तरबीधस्तात्पर्य्याभावादित्याकाङ्क्षायाः कारणत्वमेव नास्तिकिन्तु स्वजनकोपस्थितेः परिचायकत्वमिति”। अत्र दिङ्-मात्रं माथुरी व्याख्या प्रदर्श्यते प्रपञ्चस्तु तत एवावगन्तव्यः।
“सिद्धान्तयति अभिधानेति अभिधानपदं करणव्युत्पत्त्या-शब्दोच्चारणपरम् अभिधत्तेयतस्तस्यापर्य्यवसानं फलानुत्-पादस्तथा च तदुच्चारणजन्यतादृशशाब्दबुद्धौ तदुच्चारण-जन्यतादृशशाब्दधीप्रागभाव आकाङ्क्षा इति फलितंतच्च पूर्ब्बोक्तरूपेण दुष्टम्। न चाभिधानपदं भावव्युत्-पत्त्या शाब्दबोधपरं तस्यापर्य्यससानम् अभावः तथाच तादृशशाब्दबोधे तादृशशाब्दबोधाभाव आकाङ्क्षा इतिफलितमिति वाच्यं घटः कर्मत्वमित्यादावतिव्याप्ते रित्यतःपारिभाषिकमभिधानापर्य्य वसानपदार्थमाह यस्येति। यत्पदतिष्ठं यत्पदं विनेत्यर्थः। न स्वार्थान्वयानुभावकत्वमितिन यादृशान्वयबोध इत्यर्थः तस्य तदिति तत्पदस्य तत्-पदवत्त्वमित्यर्थः। अपर्य्यवसानं तादृशान्वयबोधेऽभिधाना-पर्य्यावसानं तथा च यत्पदनिष्ठयत् पदव्यतिरेकप्रयु-क्तयादृशबुद्ध्यभावः तत्पदस्य तत्पदवत्त्वं तादृशान्वयबुद्धेरभिधानापर्य्यवसानमिति फलितार्थः। पदत्वमत्र शब्दत्वम्। [Page0590-a+ 38] प्रयुक्तत्वञ्च कारणाभावात् कार्य्याभाव इति प्रतीतिसाक्षिकःस्वरूपसम्बन्धविशेषः तत्प्रतियोगिजन्यतादृशप्रतियोगिकत्वंतत्प्रयुक्तत्वम्। भवति चाव्यवहितपूर्ब्बवर्त्तितारूपसमभि-व्याहारसम्बन्धेन घटपदनिष्ठस्यानुस्वारपदस्य व्यतिरेक प्रयुक्तोघटवत्कर्मत्वमिति भेदान्वयबुद्ध्यभाव इति। घटपदस्यानु-स्वारपदवत्त्वं तादृशान्वयबोधस्याकाङ्क्षा। एवं विनिगमनाविरहेणाव्यवहितोत्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेना-नुस्वारपदनिष्ठस्य घटपदव्यतिरेकप्रयुक्तोऽपि घटवत्कर्भत्वमिति भेदान्वयबुद्ध्यभाव इति तादृशशाब्दबोधेऽनुस्वा-रपदस्य घटपदवत्त्वमपि आकाङ्क्षा। अव्यवहित पूर्ब्बवर्त्तितारूपसमभिभ्याहारसम्बन्धेन घटपदस्य कर्मत्वपदवत्त्वम्, अ-व्यवहितोत्तरवर्त्तितारूपसमभिव्याहारसम्बन्धेन कर्मत्वपदस्यघटपदवत्त्वञ्च न घटवत् कर्म त्वमिति भेदान्वयबोधे आकाङ्क्षा-अव्यवहितपूर्व्ववर्त्तितारूपसमभिव्याहारसम्बन्धेन घटपद-निष्ठस्य कर्मत्वपदस्याव्यवहितोत्तरवर्त्तितारूपसमभिव्याहा-रसम्बन्धेन कर्मत्वपदनिष्ठस्य घटपदस्य च व्यतिरेकयोर्घटवत्कर्मत्वमिति भेदान्वयबुद्ध्यभावाप्रयोजकत्वात्। कारणाभाव-स्यैव कार्य्याभावप्रयोजकत्वात् अव्यवहितपूर्ब्बवर्त्तिता-सम्बन्धेन घटपदनिष्ठस्य कर्मत्वपदस्याव्यवहितोत्तरवर्त्तितासम्बन्धेन कर्मत्वपदनिष्ठस्य घटपदस्य भेदान्वयबुद्धाव-हेतुत्वात्”। (
“वेदान्तपरिभाषायान्तु अन्यथोक्तं यथा तत्रपदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षा क्रिया-श्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणेइतिकर्त्तव्यतायाश्च जिज्ञासाविषयत्वःत्। अजिज्ञासो-रपि वाक्यार्थबोधात् योग्यत्वमुपात्तं तदवच्छेदकञ्च क्रि-यात्वकारकत्वादिकमिति नातिव्याप्तिः। अभेदान्वये चसनानविभक्तिकपदप्रतिपाद्यत्वं तद। च्छेदकमिति तत्त्वमस्यादिवाक्येषु नाव्याप्तिः। एतादृशाभिप्रायेणैव बलाबलाधिकरणे
“सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिन” मित्यत्र वैश्वदेव-यागस्यामिक्षान्वितत्वेन न वाजिनाकाङ्क्षेत्यादिव्यवहारः। ननु तत्रापि वाजिनस्य जिज्ञासाविषयत्वेऽपि तद्योग्यत्व-मस्त्येव, प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयताव-च्छेदकत्वात् इति चेन्न स्वसमानजातीयपदार्थान्वयबोध-विरहसहकृतप्रदेयद्रव्यत्वस्यैव तदवच्छेदकत्वेन वाजिन-द्रव्यस्य स्वसमानजातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेनतादृशावच्छेदकत्वाभावात्। आमिक्षायान्तु नैवं, वाजिना-म्वयस्य तदानुपस्थानात्। उदाहरणान्तरेष्वपि दुर्ब्बलत्व[Page0590-b+ 38] प्रयोजकाकाङ्क्षाविरह एवमेव द्रष्टव्यः”।
“आकाङ्क्षेयंतगुरुतया नैव गन्तुं समर्थेति” पदाङ्कदूतम्
“साकाङ्क्षशब्दैर्योबोधः पदार्थान्वयगीचरः” इति
“योग्यतार्थगता-काङ्क्षा शब्दनिष्ठानुभाविका” इति शब्दशक्ति॰
“वाक्यं स्याद्यो-ग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” सा॰ द॰
“आकाङ्क्षाप्रतीतिपर्य्यवसानविरहः स च जिज्ञारूपः” सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्ष¦ f. (-ङ्क्षा)
1. Wish, desire.
2. Purpose, intention.
3. Looking at, to, or towards.
4. Enquiry, asking.
5. The presence of a word in a sentence indispensable to the sense.
6. The significancy of a word. E. आङ् prefixed to काङ्क्षि to desire, अच् and टाप् affs.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्षा/ आ-काङ्क्षा f. desire , wish Sus3r. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=आकाङ्क्षा&oldid=507817" इत्यस्माद् प्रतिप्राप्तम्