यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशप्रदीपः, पुं, (आकाशे दीयमानः प्रदीपः ।) तुलायां दीयमानलक्ष्मीदामोदरसम्प्रदानाकाश- दीपः । तथाच ब्रह्माण्डपुराणे । “तुलायां तिलतैलेन सायं सन्ध्यासमागमे । आकाशदीपं यो दद्यात् मासमेकं निरन्तरं । सश्रीकाय श्रोपतये स श्रीमान् भुवि जायते ॥ ओ~दामोदराय नभसि तुलायां लोलया सह । प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे ॥ इति मन्त्रेण यो दद्यात् प्रदीपं सर्पिरादिना । आकाशे मण्डपे वापि स चाक्षयफलं लभेत् । विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकं ॥ अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः” ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशप्रदीप/ आ-काश--प्रदीप m. = -दीपSee. L.

"https://sa.wiktionary.org/w/index.php?title=आकाशप्रदीप&oldid=214331" इत्यस्माद् प्रतिप्राप्तम्