यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमण्डल¦ न॰ आकाशोमण्डलमिव।

१ नभोमण्डलेआकाशस्य निरयवत्वेन अनवच्छिन्नत्वेन च वेष्टनाकारमण्डलाभावेऽपि भूगोलवृत्तोपाधिकृतं तदीयं मण्डलमिवभवति। योहि नभोभागो भूगोलनानावृतः सन् दृष्टिप्रचारपथवर्त्त्यालोकगन् तस्यैव भूगोलोपाधिना गोलाकारत्वंकल्प्यते। एतेनापि प्रमाणेन भूमेर्गोलाकारत्वानुमानम् यदिभूमिर्गोलाकारा न स्यात् कथं तदाऽनन्तानवच्छिन्नस्याका-शस्य गोलाकारत्वमुपलक्ष्येत कस्यचिदुपाधेरेव च स्यभा-वात् तस्य गोलाकारत्वमुपलक्ष्यते इति कल्प्यम् अन्यस्य चपरिधेरदर्शनात् परिशेषात् भुमेरेव तथात्वसिद्धिरिति तस्यागोलाकारता तद्वशाच्चाकाशस्य तथात्वकल्पनमिति
“आकाश-मण्डलभध्यमध्यास्ते” काद॰ नभोमण्डलादयोऽप्यत्र
“नैत-न्नमीमण्डलमम्बुराशिः” सा॰ द॰ तन्त्रोक्ते भूतशुद्धौचिन्तनीये भ्रूमध्यावधिब्रह्मरन्ध्रान्तस्थिते वृत्ताकारे स्वच्छे

२ नभोमण्डले च
“वृत्तं दिवस्तत् षड्विन्दुलाञ्छितंमातरिस्वनः” तन्त्र॰। पदार्थादर्शे, भूतशुद्धौ वायोराकाशेविलापनमभिधाय
“ततोभ्रूमध्यादि ब्रह्मरन्ध्रपर्य्यन्तं स्वच्छंवर्त्तुलमाकाशमण्डलम्” इत्युक्तम्। तदेव मण्डलं विद्वेषेचिन्तनीयम् यथोक्तं
“जलस्य मण्डलं प्रोक्त” मित्युपक्रम्य
“वृत्तं दिवस्तद्विद्वेषे” मन्त्रमहो॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशमण्डल¦ n. (-लं) The celestial sphere. E. आकाश and मण्डल a circle.

"https://sa.wiktionary.org/w/index.php?title=आकाशमण्डल&oldid=490251" इत्यस्माद् प्रतिप्राप्तम्