यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्¦ अध्ययने अधिपूर्व्व एव ङित् अदा॰ आत्म॰ सक॰ अनिट्। अधीते अधीयीत अध्यैष्ट--अध्यगीष्ट।
“अधिजगे, अध्यै-ष्यत--अध्यगीष्यत
“योऽधीते शक्तितोऽन्वहम्” स्मृतिः।
“नाधीयीत कदाचन” मनुः।
“अध्यैष्ट वेदांस्त्रिदशानयष्ट” भट्टिः शानच् अधीयानः। अकृच्छ्रिणि कर्त्तरि शतृअधीयन्
“अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम्” भट्टिः अध्येतव्यम्
“श्रोतव्यमिह श्रूद्रेण नाध्येतव्यं कदा-चन”।
“स्वाध्यायोऽध्येतव्यः” श्रुतिः। अध्ययनीयम्। अध्येयः
“वेदएव सदाऽध्येयः” स्मृतिः। अध्येता। अधीतः
“अधीतवेदवेदाङ्गत्वेन” वेदन्त सा॰। ज्ञानार्थत्वात् कर्त्तरिक्तअधीतः
“अधीते शतसाहस्रम्” स्मृतिः
“अधीतिः
“अ-धीतिबोधाचरणप्रचारणैः” नैष॰। अध्येष्यमाणः।
“पीत्वापोऽध्येष्यमाणस्तु आचमेत् प्रयतोऽपि सन्” मनुःमावे अधीतम्। अधीतमनेन इनि अधीती।
“त्वगुत्त-रासङ्गवतीमधीतिनीम्” कुमा॰ अधीत्य
“अनधीत्य द्विजोवे-दान् योऽन्यत्र कुरुते श्रमम्” स्मृतिः।
“अधीत्य चतुरोवे-दान्” पुरा॰। अध्ययनम्।
“अध्ययनेनाविप्रकृष्टः” पा॰।
“सत्ताण्डवैरध्ययनं विनापि” मथुरा॰ अध्यायः
“स्वाध्या-योऽध्येतव्यः” श्रुतिःणिच् अध्यापयति
“अष्टवर्षं ब्राह्मण-मुपनयीत तमध्यापयीत” श्रुतिः अध्यापिपत् अध्यजिगपत्[Page0913-a+ 38]
“अध्यापयामास पितॄन्” मनुः णिच्--सन्। अध्यापि-पयिषति--ते अधिजिगापयिषति--ते केवलात् सन्। अधि-जिगांसते। अध्यापकः अध्यापकशब्दे उदा॰ अध्यापितः
“अध्यापितस्यीशनसापि नीतिम्” कुमा॰।
“भृतका-ध्यापको यश्च भृतकाध्यापितस्तथा” मनुः।

"https://sa.wiktionary.org/w/index.php?title=इङ्&oldid=223783" इत्यस्माद् प्रतिप्राप्तम्