यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इङ्गितम्, क्ली, (इगि + क्त ।) अभिप्रायानुरूपचेष्टा- विष्करणं । ठार सङ्केत । इत्यादि भाषा । तत्य- य्यायः । आकारः २ इङ्गः ३ । इत्यमरः ॥ गमनं । चेष्टा । इति हेमचन्द्रः ॥ (“आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारेण लक्ष्यतेऽन्तर्गतं मनः” ॥ हितोपदेशे सुहृद्भेदः । (तथाच रघुः १ । २० ।) “तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च” ।)

"https://sa.wiktionary.org/w/index.php?title=इङ्गितम्&oldid=116532" इत्यस्माद् प्रतिप्राप्तम्