यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इण्¦ णित् इङोभेदार्थम् अदा॰ पर॰ सक॰ अनिट्। एतिइतःयन्ति। इयात् इहि ऐत् आयन् अगात् इयायईयतुः ईयुः इययिय इयेथ ईयिव। एता एष्यति ऐष्यत्एतव्यम अयनीयम् इत्यम्। एता, आयकः इतः इतिःअयनम् अयः आयःऽयन् ईयिवान् ईयुषी। इत्याइत्वा उपेत्य।
“स्तनयन्नेति नानदत्” ऋ॰

१ ,

१४

० ,

५ ,[Page0921-b+ 38]
“इतः स्म मैत्रावरुणौ किमेतौ?” भट्टिः
“अहञ्च भाष्य-कारश्च कुशाग्रीयधियावुभौ, नैव शब्दाम्बुधेः पारम्” कलापप॰
“एमीदेषां निष्कृतं जारिणीव” ऋ॰

१० ,

३४ ,

५ ,
“आयन्नापोऽयनमिच्छमानाः” ऋ॰

३ ,

३३ ,

७ ,
“अगात्सराजं जलमभ्ययोध्यम्”
“ईयुर्भरद्वाजमुनेर्निकेतम्”
“तत्पृष्ठतः प्रष्ठमियाय नम्रः” भट्टिः
“सुवृद्रथोवर्त्तते यन्” ऋ॰

१ ,

१८

३ ,


“यन्ति वा आप एत्यादित्य एति चन्द्रमायन्ति नक्षत्राणि” शत॰ ब्रा॰

११ ,

५ ,

७ ,

१०
“मामेवैष्यत्यसंशयम्”
“मामेवैष्यति कौन्तेय!” इति च गीता
“अपी॰दानीं स घर्म्मात्मा इयान्मेदर्शनम् रहः” भा॰ आ॰

८२ अ॰कर्म्मणि ईयते
“इन्द्रोमायाभिः पुरुरूपईयते” श्रुतिः
“वनितयाऽनितया” रजनीवधूः” रघुःअति + अतिक्रमे सक॰
“नात्येति
“सकृदाहृता” स्मृतिः
“षड-शीतिमुखेऽतीते”
“अतीते चोत्तरायणे” स्मृतिः
“अ{??} चेत्पञ्चमीं रात्रिमतीत्य परतोभवेत्” शुद्धित॰ स्मृतिः अभि +अति + आभिमुख्येनातिक्रमे सक॰
“योऽस्य स्वर्गोंलोकोऽ-र्जितोभवेत् तमभ्यत्येति” शत॰ ब्रा॰

१२ ,

५ ,

२ ,

८ ,। वि + अति + विशेषेणातिक्रमे
“व्यतीतकालस्त्वहमभ्युपेतः” अधि + चिन्तने गत्यर्थस्य प्राप्त्यर्थत्वात् ज्ञानार्थनाच्च लाभेज्ञाने च। इकवत्अनु + अनुगमने सक॰।
“आदित्यं वा अस्तंयान्तमन्ये देवाअनुयन्ति” शत॰ ब्रा॰

११ ,

६ ,

२ ,

४ ।
“श्रुतान्वितो दशरथइत्युदाहृतः” भट्टिः सन्ततसम्बन्धे अग्वयः
“तदन्वयेशुद्धिभति” रघुः शाब्दबोधोपयोगिसम्बन्धभेदे च।
“साकाङ्क्षशब्दैर्यो बोधस्तदर्थान्वयगोचरः
“शब्दशक्ति॰सम + अनु सम्यगऽन्वये।
“तत्तुसमन्वयात्” पा॰ सू॰। अन्तर् + अन्तर्गतौ अन्तरायः अन्तरेति इड् शब्दे

९१

९ पृ॰ उदा॰अप + अपगमने अपसरणे अक॰
“अनुपेतमपेतकृत्यम्” भाग॰
“ध्रुवमपायेऽपादानम्”
“अपाये यदुदासीनम्” भर्त्तृह॰
“सत्वे निविशतेऽपैति” भाष्यका॰ वि + विशेषेण विगमे
“व्यपैति ददतः स्वधा” स्मृतिः
“स्मृत्याचारव्यपेतेन मार्गेणा-धर्षितः परैः” या॰ स्मृतिः। अपि + प्राप्तौ सक॰
“स्वमपीतो भवतीति स्वपितीत्याचते” श्रुतिः
“पञ्च नद्यः सरस्वतीमपियन्ति सस्रोतसः” वाज्॰लये अक॰ अप्ययः अपीतिः
“अपीतौ दर्शनात्”
“स्वाप्य-यात्” शा॰ सू॰अभि--आमिमुख्येन गतौ सक॰
“देहान् यथेष्टमभ्येति हित्वे-मां मानुषीं तनुम्” अभि + उप + आभिमुख्येन प्राप्तौ सक॰। [Page0922-a+ 38]
“व्यतीतकालस्तहमभ्युपेतः” रघुः
“यच्चेतसा न गणितं तदि-हाभ्युपैति” उद्भटः स्वीकारे
“अभ्युपेत्य चसुश्रूषाम्” स्मृतिःअव--अवगमे, ज्ञाने, सक॰
“अवैमि ते सारमतः खलु त्वाम्” कुमा॰। अधोगतौ अक॰। अनु + अव + सन्ततसम्बन्धे। अन्व-वायः। वि + अव + व्यवधाने
“गार्हपत्याहवनीयौ न व्यवे-यात्” कात्या॰

१ ,

८ ,



३ ।
“नान्तरा यज्ञाङ्गानि व्यवे-यात्” श्रुतिः
“अनुमत्या व्यवेयात्” स्मृतिः स्त्रीपुंसयोः संभो-गार्थव्यापारे व्यवायः। सम् + अव + सम्यक्सम्बन्धे अयुतसिद्ध्व-रूपसंबन्धे। स चावयवावयविनोः, गुणगुणिनोः, क्रिया-क्रियावतोः जातिव्यक्त्योश्च सम्बन्धः। समवेतः समवायः।
“संयुक्तसमवायतः तत्रापि समवेतानाम्” भाषा॰। सम्बन्धमात्रे च
“एते ह वै रात्री सर्व्वारात्रयः समवयन्ति” शत॰ ब्रा॰

११ ,

१ ,

७ ,

४ , सांहत्ये,
“सेनायां समवेताये सैन्यास्ते” अमरः
“धर्म्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः” गीता। आ--आगमने सक॰।
“पञ्चालनां समितिमेयाय”
“स्तब्ध-एयाय” तस्माल्लोकात् पुनरैत्यस्मै लोकाय” छा॰उ॰
“यूनः स्थविरआयति” मनुः अनु + आ + सम्यग्गमनेसक॰। अभि + आ + अभ्यागमने आभिमुख्येनागतौ
“गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम्” भा॰ अनु॰

२६ अ॰। उद् + आ + उद्गमने। उप + आ। समोपागमने। प्रति + आ + प्रत्यागमने
“प्रत्यायत्यां रात्रौ” शत॰ ब्रा॰

२ ,

३ ,

४०

३ ।
“नैनमेते रश्मयः प्रत्यायन्ति” शत॰ ब्रा॰

१४ ,

८ ,

६ ,

३ । उद्--उद्गतौ अक॰।
“उदेति सविता ताम्रस्ताम्र एवास्तमेतिच” सा॰ द॰। उदयः। उत्क्रमणे अक॰। उदेतिहवै सर्वेभ्यः पाप्मभ्योय एवं वेद” छा॰ उ॰। अभि +उद् + आभिमुख्येनोद्गतौ
“किञ्चिदभ्युदिते रवौ” म॰ त॰ पु॰। प्रति + उद् प्रत्युद्यानेन गतौ
“प्रत्यदियाय पार्व्वती” कुमा॰सम् + उद् सम्यगुदये
“यषादित्यःसमुद्यन् वै तमः पूर्ब्बं व्यपो-हति” भा॰ व॰

२०

६ अ॰।
“एककार्य्यसमुद्यन्तौ कृष्णौयुद्धेऽपराजितौ” भा॰ सभा॰

१ अ॰। सांहत्ये च समुदयःउप + समीपगमने प्राप्तौ च
“उपेयुषां मोक्षपथं मनीषिणाम्” माघः
“योगो परं स्थानमुपैति दिव्यम्” गीता उपायःदुर + दुर्गमे। निर्--निर्गमने।
“र्नियदन्त्रविभूषितम्” दुर्गाध्यानम्। निरगाच्छत्रुहस्तं त्वम्” भट्टिःपरा--प्रेतभावप्राप्तौ परेतः। पलायने च
“यः परैतिस जीवति” प्रतिपत्तौ
“नैव श्रेयो धार्तराष्ट्रः परैति” भा॰ वन॰

५ अ॰। [Page0922-b+ 38] परि--व्याप्तौ सक॰ परीतः
“पवित्रं पर्य्योषि विश्वतः” ऋ॰

७ ,

१०

६ ,

१४ , परिक्रमणे
“प्रदक्षिणमग्निं परीत्य” गृह्य॰। परिपाठ्याम् पर्य्यायः
“जिह्वा पर्य्येति मे सुखम्” भा॰आदि॰

१५

२ अ॰। अनु + परि + परिपाट्या अनुगमने
“संवत्सर एतदृतवोऽनुपरियन्ति” अथ॰

१५ ,

१७ ,

८ । आ + परि अभिमुख्येनव्याप्तौ वि + परि + व्युत्क्रमप्राप्तौविपर्य्ययः
“विपर्य्ययन्तौ वा एतावग्निं भवतः” शत॰

७ ,

२ ,

१ ,

१५ ।
“विपरीतमतोन्यथा” ज्योति॰।
“निमित्तानिच पश्यामि विपरीतानि केशव!” गीताप्र + परलोकगतौ अक॰ प्रेतः
“प्रेत्य संज्ञास्ति” कठो॰अपगतौ च
“तस्मात्तदातृण्णात् प्रैति रसः” वृह॰ उ॰। प्रकर्षेण गतौ सक॰
“प्रयन्ति सर्ववीजानि रोप्यमाणानिचैव ह” भा॰ व॰

१९

१ अ॰। अभि + प्र + अभिलाषे
“कर्मणा यमभिप्रैति स सम्प्रदानम्” पा॰ अभिप्रायः
“अभिप्रेतार्थसिद्धिर्मङ्गलम्” रघु॰। प्रति + प्रतिगमने
“सरस्ततोद्वैतवनं प्रतीयुः”
“राज्ञः प्रती-याय गुरोः सकाशम्” रघुः प्रतीयुषा पूर्ददृशे जनेन” भट्टिः। ज्ञाने प्रत्ययः प्रतीतिः।
“उच्चावचा जान-पदधर्मा ग्रामधर्माश्च तान् विवाहे प्रतीयात्” आश्व॰प॰
“सर्वोह्यात्मास्तीति प्रत्येति न नाहमस्मीति”
“सर्वो-लोको नाहमस्मीति प्रतीयात्” शा॰ भा॰
“कलहंसमालाःप्रतीयिरे श्रोत्रसुखैर्निनादैः” भट्टिः। विख्यातौ
“सोऽयंवटःश्यामैति प्रतीतः” रघुः
“तं प्रतीतं स्वधर्मेण” मनुः
“चतुबर्गफलप्राप्तिर्हि काव्यतः--प्रतीतैव” सा॰ द॰विश्वासे
“पतिः प्रतीतः प्रसवीन्मुखीं प्रियाम्” रघुः
“बल-वदपि शिक्षितानामात्मन्यप्रत्ययं चेतः”
“वलवदपि दूयमानंप्रत्यापयतीव मां हृदयम्” शकु॰
“ताः खचारित्रमुद्दिश्यप्रत्याययतु मैथिली” रघुः। सम् + प्रति + सम्यग्ज्ञाने निश्चये सम्यग्विश्वासे च।
“किं तत्कथंवेत्युपलब्धसंज्ञाविकल्पयन्तोऽपि न संप्रतीयुः” भट्टिः। वि + विगमे करिष्ये
“पितरः कामं
“व्येतु वोमानसोज्वरः” भा॰आ॰

९६ अ॰
“अनुमानं द्विविधं वीतमवीतञ्च” सा॰ कौ॰
“वीतशोकभयो विप्रो ब्रह्मलोके महीयते”
“नियतोवीतवत्सरः” मनुः।
“वीतशोकभयक्रोधः” गीता। सम् + सङ्गमे मेलने अक॰
“आप्यायस्व समेतु ते विश्वतः सोम!वृष्ण्यम्” ऋ॰

१ ,

९१ ,

१६ ,
“पार्थिवाःसर्वेसमीयुस्तत्र भारत!” भा॰ आ॰

१८

० अ॰
“राक्षसौ हरियुग्माभ्यां समरायं सुमी-यतुः”
“क्रिंनर्य्यो राक्षसैश्चैव समीयुर्मानुर्षैः सह” रामा॰[Page0923-a+ 38] अभि + सम् आभिमुख्येन सम्यग्गतौ सक॰
“तं जातमभिस-यन्ति देवाः” अथ

११ ,

५ ,

२ , णिचि अबोधने गमादेशः। गमयति ते अजीगमत् त बोधनेतु प्रत्या(प)ययति ते प्रत्यापिपत्त--प्रत्यायियत् त। सनि अबोधने गमादेशःजिगमिषतिबोधे तु प्रतीयियिषति। उपसर्गस्थावर्ण्णात् परस्य गुण-भावेन एत्वं प्राप्तौ वृद्धिरेकादेशः। अवैति अवैमि उपैति।

"https://sa.wiktionary.org/w/index.php?title=इण्&oldid=224053" इत्यस्माद् प्रतिप्राप्तम्