यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशसखः, पुं, (ईशस्य सखा बन्धुः राजाहःसखिभ्यः टच् ।) कुवेरः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशसख¦ पु॰

६ त॰ टच्समा॰। कुवेरे। बहु॰ मटच्। ईशसखा इत्येव। ईशमित्रादयोऽप्यत्र। ईशेनयथा ऽस्यसख्यं तथा भारते वर्णितं यथा।
“पिता-मही रावणस्य साक्षाद्देवः प्रजापतिः। स्वयम्भुः सर्व-लोकानां प्रभुः स्रष्टा महातपाः। पुलस्त्यो नाम तस्या-सीन्मानसोदयितः सुतः। तस्य वैश्रवणी नाम गवि पुत्रो-ऽभवत् प्रभुः। पितरं स समुत्सृज्य पितामहमुपस्थितः। तस्य कोपात् पिता राजन्! ससर्ज्जात्मानमात्मना। सजज्ञे विश्रवा नाम तस्यात्मार्द्धेन वै द्विजः। प्रतीकाराय स-क्रोधस्ततो वैश्रवणस्य वै। पितामहस्तु प्रीतात्मा ददौ वै-श्रवणस्य ह। अमरत्वं धनेशत्वं लोकपालत्वमेव च। ईशानेन तथा सख्यं पुत्रञ्च नलकूवरम्। राजधानीं नि-वेशञ्च लङ्कां रक्षोगणान्विताम्। विमानं पुष्पकं नामकामगञ्च ददो प्रभुः। यक्षाणामाधिपत्यञ्च राजराजत्वमेवच” भा॰ व॰

२७

३ अ॰।

"https://sa.wiktionary.org/w/index.php?title=ईशसख&oldid=492044" इत्यस्माद् प्रतिप्राप्तम्