यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्दरः, पुं, (ऊर्जेन बलेन दृणाति विदारयति । ऊर्ज + दॄ + “ऊर्जिदृणातेरलचौ पूर्ब्बपदान्त्यलो- पश्च” । ५ । ४० । उणादिसूत्रेण अल् अत् बा । स्वरभेदार्थं प्रत्ययद्वयम् ।) शूरः । राक्षसः । इत्यु- णादिकोषः ॥ (कुसूलम् । धान्याद्याधारः । यथा, ऋग्वेदे । ३ । १४ । ११ ॥ “ऊर्द्दरं पृणता यवेनेद्धम्” । “ऊर्द्दरं कुसूलम्” इति भाष्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्दरः&oldid=120412" इत्यस्माद् प्रतिप्राप्तम्