यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वपुण्ड्रः, पुं, (ऊर्द्ध्वः पुण्ड्रः इव ।) तिलकविशेषः । स तु ब्राह्मणललाटे पुण्ड्रेक्षुवत् चन्दनादिना कृतोर्द्ध्वरेखात्रयः । यथा । “ऊर्द्ध्वपुण्ड्रे त्रिपुण्ड्रं स्यात् त्रिपुण्ड्रे नोर्द्ध्वपुण्ड्रकमिति” । “ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्याद्वारिमृद्भस्मचन्दनैः” । इत्यादि च बहवः ॥ “ऊर्द्ध्वपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा । तिलकं वै द्विजः कुर्य्याच्चन्दनेन यदृच्छया ॥ ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्यात् क्षत्रियस्तु त्रिपुण्ड्रकम् । अर्द्ध्वचन्द्रन्तु वैश्यश्च वर्त्तुलं शूद्रयोनिजः” ॥ इति आह्निकतत्त्वधृतब्रह्माण्डपुराणम् ॥ (ऊर्द्ध्व- पुण्ड्रधारिप्रशंसा यथा, ब्रह्मपुराणे । “अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् । शुचिरेव भवेन्नित्यमूर्द्ध्वपुण्ड्राङ्कितो नरः ॥ ऊर्द्ध्वपुण्ड्रधरो मर्त्त्यो म्रियते यत्र कुत्रचित् । श्वपाकोटपि विमानस्थो मम लोके महीयते” ॥ अस्य धारणे वैदिकद्विजभिन्न एवाधिकारी यदुक्तं देवीभागवते नारायणेन ॥ “ऊर्द्ध्वपुण्ड्रं त्रिशूलं च वर्त्तुलं चतुरस्रकम् । अर्द्ध्वचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् ॥ जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः । पुण्ड्रान्तरं भ्रमाद्वापि ललाटेनैव धारयेत् ॥ ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वगमादिषु स्थितं पुण्ड्रान्तरं नैव धारयेत् वैदिको नरः” ॥ श्राद्धे ऊर्द्ध्वपुण्ड्रादिविधिनिषेधव्यवस्था । यथा, निर्णयसिन्धौ हेमाद्रिः । “जपे होमे तथा दाने खाध्याये पितृकर्म्मणि । तत्सर्व्वं नश्यति क्षिप्रमूर्द्ध्वपुण्ड्रं विना कृतम्” ॥ तथा च नारदः । “यज्ञो दानं जपो होमः स्वाध्यायः पितृकर्म्म च । वृथा भवति विप्रेन्द्राः ! ऊर्द्ध्वपुण्ड्रं विना कृतम्” ॥ इत्यादिवचनात् पैत्रे कर्म्मणि ऊर्द्धपुण्ड्रधारणं विहितम् । केचित्तु । “ऊर्द्ध्वपुण्ड्रो द्विजातीनामग्निहोत्रसमो विधिः । शाद्धकाले च संप्राप्ते कर्त्ता भोक्ता च वर्जयेत्” ॥ तथा, -- “वामहस्ते च ये दर्भा गृहे रङ्गबलिन्तथा । ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः” ॥ इति संग्रहोक्तवचनात् तथा, -- “ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रं वा चन्द्राकारमथापि वा । श्राद्धकर्त्ता न कुर्व्वीत यावत् पिण्डान्न निर्वपेत्” । इति विश्वप्रकाशवचनाच्च श्राद्धकाले ऊर्द्ध्वपुण्ड्रा- दिकं न धार्य्यमित्याहुः । तन्न, यतः कुलाचारा- देव व्यवस्था । यत्तु, -- “ललाटे पुण्ड्रकं दृष्ट्वा स्कन्धे माल्यं तथैव च । निराशाः पितरो यान्ति दृष्ट्वा च वृषलीपतिम्” ॥ इति हेमाद्रिधृतवचनम् तत् गन्धत्रिपुण्ड्रक- विषयम् । अतः श्राद्धकाले गन्धत्रिपुण्ड्रकएव न धार्य्यः । अन्यरूपस्तु धार्य्य एव । तथा च व्यासः । “वर्जयेत्तिलकं भाले श्राद्धकाले च सर्व्वदा । ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रं वा धारयेत्तु प्रयत्नतः” ॥)

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वपुण्ड्रः&oldid=120458" इत्यस्माद् प्रतिप्राप्तम्