यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वबुघ्न¦ पु॰ ऊर्द्ध्वं बुध्नं शिरोऽस्य। ऊर्द्धशिरस्के चमसे
“अर्वाग्विलश्चमस ऊर्द्धबुध्नस्तस्मिन् यशोनिहितं विश्व-रूपम्। तस्यासतः सप्त धीराः वागष्टमी ब्रह्मणासंविदानेति”
“अर्वाग्विलश्चमस ऊर्द्वबुध्न इति तच्छिरःएष ह्यर्वाग्बिलश्चमस ऊर्द्धबुध्नस्तस्मिन् यशोनिहितं विश्व-रूपमिति प्राणा वै यशोनिहितं विश्वरूपं प्राणानेतदाहतस्यासतः ऋषय सप्त धोरा इति प्राणा वा ऋषयः प्रा-णानेतदाह वृ॰ उ॰।
“देहस्य चसमरूपेण रूपक-मिदम् अर्वाग्बिलश्चमस ऊर्द्धबुध्नः इद तच्छिरःचमसाकारं हि तत् कथम्? एष ह्यर्वाग्बिलः मुखस्यविलरूपत्वात्, शिरसोबुध्नाकारत्वात् ऊर्द्धबुध्नः तस्मिन्[Page1391-b+ 38] यशोनिहितं विश्वरूपमिति यथा सोमश्चमसे एवतस्मिन् शिरसि विश्वरूपं नानारूपं निहितं भवति,किं पुनस्तद्यशः? पाणा वै यशोविश्वरूपम्। प्राणाःश्रोत्रादयः सप्त ऋषयः धीराः (श्रोत्रे द्वे नासिके द्वे नेत्रेद्वे रसना चैकेति सप्त) तेषां परिस्पन्दात्मकशब्दादि-ज्ञानहेतुत्वात्”। ऋषिधातोर्गत्यर्थतया परिस्पन्दात्मकवृत्ति-मत्त्वम् ज्ञानहेतुत्वेन धीरत्वमिति बोध्यम्।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वबुघ्न&oldid=246912" इत्यस्माद् प्रतिप्राप्तम्