यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वमुख¦ त्रि॰ ऊर्द्धं मुखमस्य।

१ ऊर्द्धगतप्रथमप्रसरे
“प्र-[Page1392-a+ 38] बोधयत्यूर्द्धमुखैर्मयूखैः” कुमा॰

२ ऊर्द्धस्थिताग्रभागे
“अधो-मुखैरूर्द्धमुखैश्च पत्रिभिः” रघुः।

३ उन्नमितवदने चस्वाङ्गत्वात् स्त्रियां ङीप्। ऊर्द्ध मुखस्य एक॰ त॰।

४ मुखस्योर्द्धभागे न॰
“दन्तान्तोर्द्धमुखं सशेषदहनम्” तन्त्रसा॰। मातृकान्यासे मुखस्योर्द्धभागे विन्दोर्न्यस्य-त्वादभेदोपचारात् विन्दुवर्ण्णैह तदर्थः।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वमुख&oldid=493690" इत्यस्माद् प्रतिप्राप्तम्