यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतम्, क्ली, (ऋ + क्त ।) उञ्छशिलम् । (यथा, मनुः । ४ । ४ -- ५ ॥ “ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम्” ॥) जलम् । (यथा, ऋग्वेदे । ७ । १०१ । ६ । “तन्म ऋतं पातु शतशारदाय” । “ऋतमुदकम्” । इति भाष्यम् ॥) सत्यं इति मेदिनी ॥ (यथा, मनुः । ८ । ८२ । “साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् । “विवशः शतमाजातीस्तस्मात् साक्ष्यं वदेदृतम्” ॥ कर्म्मफलं । यथा, “ऋतं पिवन्तौ सुकृतस्य लोके” । इति श्रुतिः ॥ विष्णुः ॥ यथा, महाभारते । १ । १ । २५३ । “भगवान् वासुदेवश्च कीर्त्त्यतेऽत्र सनातनः । स हि सत्यमृतञ्चैव पतित्रं पुण्यमेव च । शाश्वतं ब्रह्म परमं धुवं ज्योतिः सनातनम्” ॥ पुं, सूर्य्यः । यथा, शतपथब्राह्मणे । “ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म ऋतं ब्रह्म एवायुः” ॥ परब्रह्म । यथा, श्रुतिः । “ऋतमेकाक्षरं ब्रह्म” ॥ सत्याचारः । यथा, ऋग्वेदे । १ । १३७ । २ । “सुतो मित्राय वरुणाय पीतये चारूरृताय पीतये” ॥ “ऋताय सत्याचाराय” । इति दया- नन्दभाष्यम् ॥ रुद्रः । यथा, सामगानां सन्ध्यामन्त्रे रुद्रोपस्थाने । “ऋतमित्यस्य कालाग्नी रुद्र ऋषि- रनुष्टुप्छन्दो रुद्रो देवता रुद्रोपस्थाने विनि- योगः” ॥ देवमेदः । यथा, ऋग्वेदे । ४ । २३ । ८ । “ऋतस्य हि सुरुषः सन्ति पूर्ब्बीरृतस्य धीति- र्वृजिनानि हन्ति” । “ऋतस्य ऋतदेवस्य” । इति भाष्यम् ॥ यज्ञः । यथा, ऋग्वेदे । १ । १४५ । ५ । “ऋतचिद्धि सत्यम्” । “ऋतस्य यज्ञस्य जलस्य वा चित् ज्ञाता” । इति भाष्यम् ॥ अग्नेरृषि- भेदः । यथा, यजुषि । १७ । ८२ । “ऋतश्च सत्यश्च” । इति ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋतम्¦ अव्य॰ ऋत--कमि। सत्यमित्यर्थे। ऋतम्भरः।

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a god of आभूतरयस् group. Br. II. ३६. ५५.
(II)--a name for सम्वत्सर, and ऋतुस् from ऋतम्। वा. ३०. २१.
"https://sa.wiktionary.org/w/index.php?title=ऋतम्&oldid=426875" इत्यस्माद् प्रतिप्राप्तम्