यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककः त्रि, (“एकादाकिनिच्चासहाये” । ५ । ३ । ५२ । इत्यत्र चकारात् पक्षे कन् ।) असहायः । एकला इति भाषा । तत्पर्य्यायः । एकः २ एकाकी ३ । इत्यमरः ॥ (“महानप्येकको वृक्षः सर्व्वतः सुप्रतिष्ठितः । प्रसह्यैव हि वातेन शक्यो धर्षयितुं यतः” ॥ इति पञ्चतन्त्रे ३ । ५२ । ॥ तथा नैषधे । २ । ३६ । “विधिरेककचक्रचारिणम् किमु निर्म्मित्सति मान्मथं रथम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=एककः&oldid=120816" इत्यस्माद् प्रतिप्राप्तम्