यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकचरः, पुं, (एकश्चरति यः । चर + पचाद्यच् ।) हिंस्रपशुविशेषः । गण्डार इति भाषा । तत्प- र्य्यायः । वार्द्धीनसः २ गणोत्साहः ३ गण्डकः ४ । इति त्रिकाण्डशेषः ॥ (सर्पादिः । यथा, मनुः । ५ । १७ । “न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान्” । “ये एकाकिनः प्रायेण चरन्ति सर्पादयम्तानेक- चरान्” । इति तट्टीकायां कुल्लुकभट्टः ॥ (त्रि, एकाकिचारी । यूथभ्रष्टः । यथा, “अयमेकचरो- ऽभिवर्त्तते माम्” । इति किराते । १३ । ३ । “एकचरो यूथादपेतः” । इति तट्टीका ॥)

"https://sa.wiktionary.org/w/index.php?title=एकचरः&oldid=120832" इत्यस्माद् प्रतिप्राप्तम्