एकच्छाया
यन्त्रोपारोपितकोशांशः सम्पाद्यताम्
वाचस्पत्यम् सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
एकच्छाया¦ स्त्री एकस्य ऋणशोधनेऽन्यासहायस्याधमर्णस्य च्छायासादृश्यम्। अधमर्ण्णसादृश्ये।
“बहवः स्युर्यदि स्वांशान्दद्युः प्रतिभुबोधनम्। एकच्छायाश्रितेष्वेषु धनिकस्ययथारुचि” या॰।
“एकच्छायाश्रितेषु प्रतिभूषु एकस्या-धमर्ण्णस्य छाया सादृश्यं तामाश्रिताः एकच्छायाश्रिताःअधमर्णो यथा ऋणदानाय स्थितस्तथा दानप्रतिभुवो-ऽपि प्रत्येकं द्रव्यदानाय स्थिताः” मिता॰।
“एकच्छा-याप्रविष्टानां दाप्यो यस्तत्र दृश्यते। प्रोषिते तत्सुतोदाप्यः पित्र्यमशं मृते सति” कात्या॰ स्मृ॰। एकैव च्छाया[Page1463-b+ 38] आच्छादनरूपा यत्र। तुल्यच्छादने त्रि॰
“एकच्छायंचक्रतुस्तावाकाशं शरवृष्टिभिः” भा॰ वि॰
१८
७ ।