यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदेहः, पुं, (एकः मुख्यो देहो यस्य । ग्रहेषु सौम्यत्वादस्य तथात्वम् ।) बुधग्रहः । इति त्रि- काण्डशेषः ॥ (एको मेदरक्तादीनां साम्यात् तुल्यो देहः शरीरं यत्र । गोत्रम् । वंशः । यथा, हरिवंशे ४६ अध्याये । “बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् । एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः” ॥ दम्पती । “अस्थिभिरस्थीनि मांसैर्मांसानि त्वचा त्वचमिति श्रुतेः” । तथा, -- “शरीरार्द्धं स्मृता जाया पुण्यापुण्यफले समा” । इति स्मृत्युक्तेश्च जायापत्योरेकदेहत्वम्” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकदेहः&oldid=120882" इत्यस्माद् प्रतिप्राप्तम्