यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदः, पुं, (एकं पदं पदविन्यासो यस्मिन् ।) शृङ्गार- बन्धविशेषः । तस्य लक्षणम् । पादमेकं हृदि स्थाप्य द्वितीयं स्कन्धसंस्थितम् । स्तनौ धृत्वा रमेत् कामी बन्धस्त्वेकपदः स्मृतः” ॥ इति रतिमञ्जरी ॥ (वास्तयागमण्डलैककोष्ठपूज- नीयो देवभेदः । यथा वास्तुयागतत्त्वधृतदेवी- पुराणवचनम् । “भृगुश्चैकपदो ज्ञेयः” । इति । एकं पदं चरणं यस्य इति विग्रहे वाच्यलिङ्गः । एकपदविशिष्टः । यथा भागवते १ । १६ । २० । “पादैर्न्यूनं शोचसि मैकपाद- मात्मानं वा वृषलैर्भोक्ष्यमाणम्” ॥ एकेन पदा चरन् वृषरूपधरो धर्म्मो गोरूपधरां पृथ्वीं रुदतीं दृष्ट्वोवाच । हे भद्रे ! पादैर्न्यूनं एक- पादं मां तथा शूद्रैर्भोक्ष्यमाणमात्मानं वा शोचसि किम् । इति तट्टीका ॥)

"https://sa.wiktionary.org/w/index.php?title=एकपदः&oldid=120914" इत्यस्माद् प्रतिप्राप्तम्