यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकपदम्, क्ली, (एकं पदं पदमात्रोच्चारणकालो यस्मिन् ।) तत्कालः । इति मेदिनी ॥ (तत्पर्य्यायः । तत्क्षणम् १ इति विश्वः । यथा, रघुः ८ । ४८ । “कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे” ॥ “एकपदे तत्क्षणे । स्यात् तत्क्षणे एकपदमिति विश्वः” । इति तट्टीका ॥ एकं प्रशस्तं पदं स्थानम् । “पदं व्यवसितित्राणस्थानलक्ष्याङ्घ्रिवस्तुषु” इत्यमरोक्ते- स्तथात्वम् । वैकुण्ठम् । सुप्तिङन्तरूपपदम् । यथा माघे २ । ९५ । “निहन्त्यरीनेकपदे य उदात्तः स्वरानिव” ॥ एकं श्रेष्ठं पदं कोष्ठरूपपूजास्थानम् । वास्तुमण्डल- स्थमेककोष्ठात्मकस्थानम् । यथा, वास्तुयागतत्त्वधृत- देवीपुराणम् । “इन्द्रश्चेन्द्रात्मजश्चोभावेकैकपदसंस्थितौ” ॥)

"https://sa.wiktionary.org/w/index.php?title=एकपदम्&oldid=120912" इत्यस्माद् प्रतिप्राप्तम्