यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

औ, औकारः । स तु चतुर्द्दशस्वरवर्णः । अस्योच्चारण- स्थानं ओष्ठः कण्ठश्च । (ओदौतोः कण्ठौष्ठम्” । इत्युक्तेः । तथा च शिक्षायाम् । “एऐ तु कण्ठ-तालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ।) स दीर्घः प्लुतश्च भवति न ह्रस्वः ॥ (प्रत्येकमुदा- त्तानुदात्तस्वरितभेदात् त्रिविधोऽपि पुनरनु- नासिकाननुनासिकभेदात् षड्विध एतेन द्वादश- विध एव ।) “रक्तविद्युल्लताकारं औकारं कुण्डली स्वयम् । अत्र ब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये ॥ पञ्चप्राणमयं वर्णं सदाशिवमयं सदा । सदा ईश्वरसंयुक्तं चतुर्व्वर्गप्रदायकम्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गभाषायां) तस्य लेखनप्रकारो यथा, -- “ओकारमध्यदक्षेतु गता तूर्द्ध्वगतायता । किञ्चित् सा वामतो वक्रा तासु ब्रह्मेशविष्णवः ॥ शक्तिमध्यगता रेखा ध्यानमस्य प्रचक्ष्यते” । इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा, “औकारः शक्तिको नादस्तेजसो वामजङ्घकः । मनुरर्द्धग्रहेशश्च शङ्कुकणः सदाशिवः ॥ अधोदन्तञ्च कण्ठौष्ठौ सङ्कर्षणः सरस्वती । आज्ञा चोर्द्ध्वमुखी शान्तो व्यापिनी प्रकृतः पयः ॥ अनन्ता ज्वालिनी व्योमा चतुर्द्दशी रतिप्रियः । नेत्रमात्मकर्षिणो च ज्वालामालिनिका भृगुः” ॥ इति तन्त्रशास्त्रम् ॥ शेषदशनः । सत्यान्तः । इति वीजवर्णाभिधानम् ॥ (मातृकान्यासेऽधो- दन्तपङ्क्तौ न्यस्यतया तच्छब्देनाप्यभिधानम् । मातृकान्यासमन्त्रो यथा, -- ॐ नम ऊर्द्ध्वदन्तपङ्क्तौ औं नमोऽधोदन्तपङ्क्तौ” ॥ अनुबन्धविशेषः । यदुक्तं कविकल्पद्रुमे । “ओर्नि- ष्ठातन औरनिट्” । तेन दृशि रौ प्रेक्षणे इत्यस्य ऌटि कृते द्रक्ष्यति इति स्यात् ॥)

औ, व्य, आह्वानम् । सम्बोधनम् । इति मेदिनी ॥ विरोधः । निर्णयः । इति शब्दरत्नावली ॥ (गण- भेदः । स च चादिः । इति पाणिनिः । १ । ४ । ५७ ॥)

औः, पुं, अनन्तः । इत्येकाक्षरकोषः ॥ निस्वनः । इति मेदिनी ॥

औः, स्त्री, विश्वम्भरा । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

¦ अव्य॰ आ + अव--क्विप् ऊठ्।

१ आह्वाने

२ संबोधनेमेदि॰।

३ विरोधे

४ निर्ण्णये” शब्दरत्ना॰।

५ अनन्ते पु॰एकाक्षरकोषः

६ निस्वने पु॰ मेदि॰।

७ पृथिव्यां स्त्री मेदि॰स च
“चतुर्द्दशस्वरोयोऽसौ सेतुरौकारसंज्ञितः। सचा-नुस्वारनादाभ्यां शूद्राणां सेतुरुच्यते” तन्त्रसारधृतकालिकापु॰ उक्तेः शूद्राणां जप्यमन्त्रभेदः।

शब्दसागरः सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

औ¦ The diphthong Au or Ou, having the same sound as in Our, and considered as the fourteenth vowel of the Nagari alphabet.

औ¦ ind. An interjection of,
1. Calling, (ho! hola.)
2. Of addressing, (the vocative particle oh.)
3. A particle of prohibition, and
4. Of asseveration.

औ¦ m. (औः) The serpent ANANTA. f. (औः) The earth.

औ¦ ind. The mystical prefix proper for Sudras: see ओम्।

Apte सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

औ [au], m.

A sound.

N. of Śeṣa or Ananta.

The number जलधि; cf. also औः श्वा युवा नरो नारी भावः सूक्ष्मः प्रजापतिः । स्थूलो जारः कलावांश्च सुखी दुर्गा रतिः कविः ॥ Enm.

The sacred syllable of the Śūdras; Kālikā P. -f. The earth. -ind. An interjection of (1) calling (ho, hallo); (2) addressing (oh !); (3) opposition; (4) asseveration or determination.

औम् [aum], ind. The sacred syllable of the Śūdras (for ओम् which is forbidden to be uttered by them).

Monier-Williams सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

औ the fourteenth vowel of the alphabet (having the sound of English ओउin ओउर्).

औ ind. an interjection

औ ind. a particle of addressing

औ ind. calling

औ ind. prohibition

औ ind. ascertainment L.

औ m. N. of अनन्तor शेषL.

औ m. a sound L.

औ m. the सेतुor sacred syllable of the शूद्रs , Ka1lika1P. ([ T. ])

औ f. ( औस्)the earth L.

Purana Encyclopedia सम्पाद्यताम्

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

aujasa .......................................... p302
audumbara .................................... p644
auddālaka .................................... p303
auddālakīya ................................ p177
audbhida^1 .................................. p644
audbhida^2 .................................. p644
aupaka .......................................... p645
aurasaka ...................................... p645
aurṇika ........................................ p645
aurva ............................................ p177
auśanasa ...................................... p178
auśanasa ...................................... p303

Mahabharata Cultural Index सम्पाद्यताम्

"https://sa.wiktionary.org/w/index.php?title=औ&oldid=507770" इत्यस्माद् प्रतिप्राप्तम्