यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कंसकारः, पुं, स्त्री, (कंसं तन्मयपात्रादिकं करोति यः । कंस + कृ + “कर्म्मण्यण्” । ३ । २ । १ । केचित्तु तालव्यशकारमिच्छन्त्यत्र ।) जातिविशेषः । का~- सारि इति भाषा ॥ तस्योत्पत्तिर्यथा । “वैश्यायां ब्राह्मणाज्जातः अम्बष्ठो गान्धिको बणिक् । कंसकारशङ्खकारौ ब्राह्मणात् सम्बभूवतुः” ॥ इति ष्टहद्धर्म्मपुराणम् ॥ अपि च । “विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः । ततो बभूवुः पुत्त्राश्च षडेते शिल्पकारिणः ॥ मालाकरः कर्म्मकारः शङ्खकारः कुविन्दकः । कुम्भकारः कंसकारः षडेते शिल्पिनो नराः” ॥ इति ब्रह्मवैवर्त्तपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=कंसकारः&oldid=121764" इत्यस्माद् प्रतिप्राप्तम्