यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक इ ङ व्रजने । इति कविकल्पद्रुमः ॥ (भ्वां-- आत्मं--सकं--सेट् ।) इ कर्म्मणि कङ्क्यते । ङ कङ्कते । इति दुर्गादासः ॥

कक ङ इच्छायां । गर्व्वे । चापले । इति कवि- कल्पद्रुमः ॥ (भ्वां--आत्मं--सकं--अकं--च--सेट् ।) इच्छेह तृष्णा । चापलं चञ्चलीभावः । ङ ककते काकः । सतृष्णश्चञ्चलो वा स्यादित्यर्थः । गर्व्वः कैश्चिन्न पठ्यते । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक¦ इच्छायाम् सक॰ गर्व्वेचापले च अक॰ भ्वा॰ आत्म॰ सेट्। ककते अककिष्ट चकके

कक¦ गतौ भ्वा॰ इदित् आत्म॰ सक॰ सेट्। कङ्कते। अकङ्किष्ट चकङ्के प्रनिकङ्कते न णत्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक¦ r. 1st cl. (ककते)
1. To be proud.
2. To be unsteady.
3. To be thirsty. (इ) ककि (कंकते) To go.

"https://sa.wiktionary.org/w/index.php?title=कक&oldid=255303" इत्यस्माद् प्रतिप्राप्तम्