यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुदः, पुं क्ली, (कं सुखं उत्कर्षं वा कौति प्रकाश- यति धातूनामनेकार्थत्वात् कुधातुरत्र प्रकाशनार्थः अन्तर्ण्यन्तार्थश्च । कु + क्विप् तुक् च पृषोदरादि- त्वात् तस्य दः । यद्वा कस्य सुखस्य शरीरस्य वा कुं भूभिं मूलं आकरमिति यावत् ददातीति । ककु + दा + कः । यद्वा “ककुदस्यावस्थायां लोपः” । ५ । ४ । १४६ । अर्द्धर्च्चादि-पां । २ । ४ । ३१ ।) प्राधा- न्यम् । (यथा अथर्व्ववेदे । १० । १० । १९ । “ऊर्द्ध्वो विन्दुरुदचरद् ब्रह्मणः ककुदादधि” । रघुश्च । ६ । ७१ ॥ “इक्षाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूत् । काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोशलेन्द्राः” ॥) राजचिह्नम् । तत्तु श्वेतच्छत्रादि । (यथा रघुः । ३ । ७० । “अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम्” ॥) वृषाङ्गम् । झु~ट इति भाषा । इत्यमरः ॥ ३ । ३ । ९१ ॥ (यथा महाभारते । १३ । १४ । २३६-२३९ । “वृषरूपधरं साक्षात् क्षीरोदमिव सागरम् । कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् ॥ वज्रसारमयैः शृङ्गैर्निष्टप्तकनकप्रभैः । सुतीक्ष्णैर्मृदुरक्ताग्रैरुत्किरन्तमिवावनिम् ॥ जाम्वूनदेन दाम्ना च सर्व्वतः समलङ्कृतम् । सुवक्त्रखुरनासञ्च सुकर्णं सुकटीतटम् ॥ सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् । ककुदं तस्य चाभाति स्कन्धमापूर्य्य धिष्ठितम्” ॥) पर्ब्बताग्रभागः । इति अमरटीकायां स्वामी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद पुं-नपुं।

प्राधान्यम्

समानार्थक:शृङ्ग,ककुद,ललाम

3।3।92।1।1

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्. स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

पदार्थ-विभागः : , शेषः

ककुद पुं-नपुं।

राजचिह्नम्

समानार्थक:ककुद

3।3।92।1।1

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्. स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

पदार्थ-विभागः : चिह्नम्

ककुद पुं-नपुं।

वृषाङ्गम्

समानार्थक:ककुद

3।3।92।1।1

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्. स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद¦ पु॰ न॰ कस्य देहस्य सुखस्य वा कुं भूमिं ददाति दा क। (झुं ट) इति ख्याते

१ वृषाङ्गभेदे,

२ प्रधाने,

३ नृपचिह्ने, छत्रादौ,

४ पर्व्वताग्रभागे च।
“इक्षाकुवंश्यः ककुदं नृपा-णाम्” रघुः।
“नृपतिककुदं दत्त्वा यूने सितातपवारणम्” रघुः।
“स राजककुदव्यग्रपाणिभिः पार्श्ववर्त्तिभिः” रघुः। बहु॰ अवस्थायामन्त्यसोपः समा॰। अजातककुत्अल्पवयाः वृषः। पूर्ण्णककुत् तरुणः। पर्व्वतभेदे चान्त्य-लोपःत्रिककुत् त्रिकूटगिरिः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुदः [kakudḥ] दम् [dam], दम् 1 The peak or summit of a mountain.

A hump (on the shoulders of an Indian bull). किं यत्तत्सास्नालाङ्गूलककुदखुरविषाण्यर्थरूपं स शब्दः Mbh.I.1.1.

Chief, foremost, pre-eminent; ककुदं वेदविदां तपोधनश्च Mk.1.5; इक्ष्वाकुवंश्यः ककुदं नृपाणाम् R.6.71.

A sign or symbol of royalty; नृपतिककुदम् R.3.7,17,27.

A species of serpent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुद mn. a peak , summit (of a mountain etc. )

ककुद mn. chief , head , pre-eminent AV. x , 10 , 19 S3Br. Ragh. etc.

ककुद mn. the hump on the shoulders of the Indian bullock MBh.

ककुद mn. a species of serpent Sus3r.

ककुद mn. an ensign or symbol of royalty (as the white parasol etc. ) Ragh.

ककुद m. N. of a king VP.

"https://sa.wiktionary.org/w/index.php?title=ककुद&oldid=494314" इत्यस्माद् प्रतिप्राप्तम्