यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुप्, [भ्] स्त्री, (कं वातं स्कुभ्नाति विस्तारयति या । स्कुभ इति सौत्रः । क्विप् । पृषोदरादित्वात् सलोपः ।) दिक् । इत्यमरः ॥ १ । ३ । १ । प्रवेणी । शोभा । चम्पकमाजा । इति मेदिनी ॥ शास्त्रम् । इति विश्वः ॥

ककुभ्, स्त्री, (कं सुखं आनन्दं स्कुभ्नाति विस्तारयति या पृषोदरादित्वात् सलोपः ।) रागिणीविशेषः । तस्या नामान्तरम् । कुहुः । तस्या लक्षणम् । “पीतं वसाना वसनं सुकेशी वने रुदन्ती पिकनाददूना । विलोकयन्ती ककुभोऽतिभीता मूर्त्तिः प्रदिष्टा ककुभस्तथेयम्” ॥ इति सङ्गीतदामोदरः ॥ (दिक् । यथा, मागवते । २ । ७ । २५ । “वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाहदन्तैर्विडम्बितककु- ब्जुष ऊढहासम्” ॥ दक्षकन्या । सैव घर्म्मपत्नी । गथा तत्रैव । ६ । ६ । ४ । “भानुर्लम्बा ककुब् जामिर्विश्वा साध्या मरुत्वती” ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ् स्त्री।

दिक्

समानार्थक:दिश्,ककुभ्,काष्ठा,आशा,हरित्,गो

1।3।1।1।2

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

अवयव : दिग्भवम्,पूर्वदिक्,पश्चिमदिक्

सम्बन्धि2 : दिग्भवम्

वैशिष्ट्यवत् : दिग्भवम्

 : पूर्वदिक्, दक्षिणदिक्, पश्चिमदिक्, दिङ्नाम, उत्तरदिक्, अग्न्यादिकोणस्य_नाम, मध्यमात्रदिशः_नाम, चक्राकारदिशः_नाम, अग्रे

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ्¦ स्त्री कं प्रकाशं स्कु भ्नाति स्कुन्भ--क्विप् पृषो॰।

१ दिशि,

२ शोभायाम्,

३ चम्पकमालायाम्,

४ , शास्त्रे,

५ रागिणीभेदेच।
“अष्टौ व्यख्यत् ककुभः पृथिव्याः” ऋ॰

१ ,

५८ ,

१ ।
“दाधर्य्य प्राचीं ककुभं पृथिव्याः”

७ ,

९ ,

२ ।

६ प्राणे।
“ककुपछन्दः” यजु॰

१५ ,

४ ।
“कं सुखं शरीरे स्कुभ्रातिधारयतीति ककुप्, कं सुखं कोपयतिदीपयतीति कुपदीप्तौचुरादि क्विप्। पूर्वत्रपक्षे सलोपश्छान्दसः ककुप् प्राणः
“प्राणो वै ककुप् छन्दः इति श्रुतेः” वेददी॰। द्विती-यपक्षे पान्तमिति भेदः। वैदिके

७ छन्दोभेदे।
“उक्षा वयः ककुप्छन्दः” यजु॰

१४ ,


“आद्यन्तावष्टाक्षरौपादौ मध्यमौ द्वादशाक्षरौ ककुप्” वेददी॰। कात्या॰सर्व्वा॰

५ अ॰।
“द्वितीयमुष्णिक् त्रिपदान्त्यो द्वादशकःआद्यश्चेत् पुर उष्णिक् मध्य मश्चेत् ककुप्” इति तल्लक्षणमुक्तम्।
“सर्वाः ककुभः” आश्व॰ श्रौ॰

६ ,

१ ,

२ । ककुबरागिणीरूपमुक्तम् संगीतदामो
“पीतं वसाना वसनंसकेशी वने रुदन्ती पिकनाददूना। विलोकयन्ती कक-भोऽतिभीता मूर्त्तिः प्रदिष्ठा ककुभस्तथेयम्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ्¦ f. (-प)
1. Space, region or quarter, as east, west, &c.
2. Beauty, splendor.
3. Unornamented hair, or the hair hanging down as a tail.
4. A wreath of Champaka flowers.
5. A Ragini or personified mode of music.
6. A Sastra or sacred treatise. E. क wind, स्कुभ् to spread, क्विप् affix and the स is dropped; or कक् to be proud, उभ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ् [kakubh], f.

A direction, quarter of the compass; वियुक्ताः कान्तेन स्त्रिय इव न राजन्ति ककुभः Mk.5.26; Śi.9.25, 3.33.

Splendour, beauty.

A wreath of Champaka flowers.

A sacred treatise or Śāstra.

A peak, summit.

A Rāgiṇī or personified mode of music.

The personified quarter of the sky.

Breath, animation.

Unornamented hair; or hair hanging down as a tail.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ् f. (See. ककुद्)a peak , summit RV.

ककुभ् f. space , region or quarter of the heavens BhP. Mr2icch. Katha1s. etc.

ककुभ् f. N. of a metre of three पादs (consisting of eight , twelve , and eight syllables respectively ; so called because the second पादexceeds the others by four syllables) RPra1t. 889 AV. xiii , 1 , 15 VS. S3Br. etc.

ककुभ् f. unornamented hair or the hair hanging down like a tail L.

ककुभ् f. a wreath of Campaka flowers L.

ककुभ् f. splendour , beauty L.

ककुभ् f. a शास्त्रor science L.

ककुभ् f. a रागिणीor mode of music L.

ककुभ् f. N. of a daughter of दक्षand wife of धर्म(as a personified quarter of the sky) BhP.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुभ् स्त्री.
तीन पादों वाले एक छन्द का नाम, 8,12,8 शां.श्रौ.सू. 7.25.3 (इस छन्द में निबद्ध ऋचा); ला.श्रौ.सू. 6.4.7; (ककुप् ककुदिनी (ककुभिनी भवति निरुक्त 7.12)। वि. कूबड़ (ककुद्) से सम्बद्ध ‘ककुभं रूपं वृषभस्यारोचते’, बौ.श्रौ.सू. 14.12ः13 (अदाभ्य)।

"https://sa.wiktionary.org/w/index.php?title=ककुभ्&oldid=477831" इत्यस्माद् प्रतिप्राप्तम्