यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कः, पुं, (कङ्कते उद्गच्छति इति । ककि गतौ । कक् + अच् + इदित्वान्नुम् ।) पक्षिविशेषः । का~क् इति भाषा । तत्पर्य्यायः । लोहपृष्ठः २ । इत्यमरः २ । ५ । १६ ॥ सदंशवदनः ३ खरः ४ रणालङ्करणः ५ क्रूरः ६ आमिषप्रियः ७ । इति राजनिर्घण्टः ॥ अरिष्टः ८ कालपुष्टः ९ किंशारुः १० लोहपृष्टकः ११ । इति जटाधरः ॥ दीर्घपादः १२ दीर्घपात् १३ । इति शब्दरत्नावली ॥ (यथा भागवते ३ । १० । २३ । “कङ्कगृध्रवटश्येनभासभासकवर्हिणः” ।) यमः । छद्मद्विजः । इति मेदिनी ॥ युधिष्ठिरराजः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ४ । ६ । १४ । “शृण्वन्तु मे जानपदाः समागताः कङ्को यथाहं विषये प्रभुस्तथा” ॥ शाल्मलिद्वीपान्तर्गतपञ्चमवर्षपर्ब्बतः । तद्विव- रणं विष्णुपुराणे २ अंशे ४ अध्याये द्रष्टव्यम् । क्षत्त्रियः । इति शब्दमाला ॥ कंसासुरभ्राता । स तु उग्रसेनपुत्त्रः । (यथा, भागवते ९ । २४ । २४ । “कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा” ॥) महाराजचूतः । इति राजनिर्घण्टः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कः [kaṅkḥ], 1 A heron; Mb.11.16.7.

A variety of mango.

N. of Yama.

A Kṣatriya.

A Vṛiṣṇi.

A false or pretended Brāhmaṇa.

Name assumed by Yudhiṣṭhira in the palace of Virāṭa.

One of the 18 divisions of the continent.

N. of a people (pl.); cf. कङ्कस्तरङ्गे गुप्ते च गृध्ने काके युधिष्ठिरे । कूले मधुरिपौ कोके पिके वैवस्वते$प्यथ ॥ Nm.

ङ्का A sort of sandal.

Scent of the lotus. -Comp. -त्रोटः, -टिः a kind of fish. -पत्र a. furnished with the feathers of a heron. (-त्रः) an arrow furnished with a heron's feathers; नखप्रभाभूषितकङ्कपत्रे R.2.31; U.4.2; Mv.1.18. (-त्रम्) a heron's feather fixed on an arrow. -पत्रिन् m. = कङ्कपत्रः.

माला a kind of musical instrument.

beating time by the clapping of hands. -मुख, -वदन a. shaped like a heron's mouth. (-खः, -खम्), -वदनम् a pair of tongs; शल्यानि व्यपनीयकङ्कवदनैरुन्मोचिते कङ्कटे Ve.5.1. -वासस् m. An arrow (कङ्कपत्र); असंपातं करिष्यन्ति पतन्तः कङ्कवाससः Rām.5.21.26. -शायः a dog (sleeping like a heron).

"https://sa.wiktionary.org/w/index.php?title=कङ्कः&oldid=255726" इत्यस्माद् प्रतिप्राप्तम्