कर्णः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कर्णः, पुं, (कीर्य्यते क्षिप्यते । शब्दो वायुना यत्र । किरति शब्दग्रहणेन मनसि सुखं क्षिपति ददा- तीत्यर्थः । कॄश विक्षेपे + “कॄवृजॄसीति” नन् निच्च । उणां ३ । १० । यद्वा कर्ण्यते आकर्ण्यते अनेन । कर्ण + करणे अप् ।) श्रवणेन्द्रियम् । काण् इति भाषा । तत्पर्य्यायः । शब्दग्रहः २ श्रोत्रम् ३ श्रुतिः ४ श्रवणम् ५ श्रवः ६ । इत्य- मरः । २ । ६ । ९४ ॥ श्रौत्रम् ७ । इति तट्टीका ॥ वचोग्रहः ८ । इति राजनिर्घण्टः ॥ (यथा रघः । १ । ९ । “तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः” ॥) कर्णस्तु श्रवणेन्द्रियस्य गोलकं स्थानम् । तत्र श्रोत्र- मिन्द्रियम् । तत्तु कर्णशस्कुल्यवच्छिन्ननभोभागः । तस्य देवता दिक् । विषयः शब्दः । इति श्री- भागवतम् ॥ युधिष्ठिराग्रजः । स तु कुन्त्याः कन्याकाले सूर्य्यौरसजातः । एतेन काणीन इत्या- ख्ययापि प्रसिद्धः । अस्य जन्मादिविवरणन्तु महा- भारते । १ । १११ अध्याये द्रष्टव्यं ॥ तत्पर्य्यायः । राधेयः २ वसुषेणः ३ अर्कनन्दनः ४ घटोत्कचान्तकः ५ चाम्पेशः ६ सूतपुत्त्रकः ७ । इति त्रिकाण्डशेषः ॥ चाम्पाधिपः ८ अड्गराट् ९ राधासुतः १० अर्क- तनयः ११ । इति हेमचन्द्रः ॥ अङ्गाधिपः १२ । इति भूरिप्रयोगः ॥ (यथा महाभारते । १ । सम्भवपर्ब्बणि १११ । ३१ । “प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ । कर्णो वैकर्त्तणश्चैव कर्म्मणा तेन सोऽभवत्” ॥ अयं हि दातॄणामग्रगण्यः । अस्य किमपि नादेय- मासीत् । अन्यैरभेद्यं सहजमपि स्वदेहकवचं शरीरात् समुत्कृत्य ब्राह्मणरूपधारिणे याच- मानाय इन्द्राय दत्तवान् तथा उपोषितं द्विज- रूपधारिणं विष्णुं स्वपुत्त्रमांसेन प्रीणयामास । एतद्विवरणन्तु जैमिनिभारते सुष्पष्टमस्त्येव । अयं परशुरामशिष्यी महावीर्य्यः भारतयुद्धे दुर्य्योध- नपक्षावलम्बी आसीत् । अष्ठादशदिवसव्याप्ते भारतसंग्रामे भीष्मदेवः सेनापतिपदमधिरुह्य दशाहं यावत् युद्धमकरोत् । ततः शरशय्यां गते तस्मिन् द्रोणश्चतुर्द्दिनानि अयुध्यत । एतस्मि- न्नेव समयेऽयं कर्णोऽपि स्वसेनावलमादाय पाण्डवैः सह युयुधे । ततो गतजीविते द्रोणे सैनापत्य- मधिरूढोसौ दिवसद्वयं वियुध्य कृष्णसहायेना- र्ज्जुनेन निहत आसीत् ॥) सुवर्णालिवृक्षः । इति मेदिनी ॥ (धृतराष्ट्रशतपुत्त्रेषु एकः पुत्त्रः । यथा महाभारते १ । ११७ । ३ । “दुर्म्मर्षणो दुर्म्मुखश्च दुष्कर्णः कर्ण एव च” । नौकायाः क्षेपणीविशेषः । (दा~ड इति भाषा ॥ यथा रामायणे ६ । २३ । ३० । “हतप्रवीरा विध्वस्ता निरुत्साहा निरुद्यमा । सेना भवति संग्रामे हतकर्णेव नौर्जले” ॥ कर्णः अस्त्यस्य प्राशस्त्येन । अर्श आद्यच् । दीर्घ- कर्णे त्रि, यथा यजुर्व्वेदे । २ । ४ । ४० । “खड्गो वैश्वदेवः श्वाकृष्णा कर्णो गर्द्दभः” ॥)