यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यपम्, क्ली, (काश्यं मद्यं पिबत्यत्र । पा + घञ्र्थे कः । मांसस्य हि मद्यपानाङ्गत्वेन प्रसिद्धेस्तथा- त्वम् ।) मांसम् । इति हेमचन्दः ॥

काश्यपः, पुं, (कश्यपस्य गोत्रापत्यम् । विदाद्यञ् ।) कणादभुनिः । इति त्रिकाण्डशेषः ॥ मृगभेदः ॥ इति मेदिनी ॥ गोत्रविशेषः । तत्प्रवरान्तर्गत- मुनिविशेषः । इति स्मृतिः ॥ कश्यपस्यापत्य- मात्रञ्च ॥ (विभाण्डकमुन्यर्थे यथा, भहाभारते ३ । १११ । २० । “स्वाध्यायवान् वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत्” ॥ * ॥ स्वनामख्यातो द्विजविशेषः । अयं हि विष- विद्यापारदर्शी । अस्य विवरणमुच्यते ।

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यप¦ न॰ काश्यं मद्यं पिबत्यत्र पा--घञर्थे क।

१ मांसे हेम-च॰। मांसस्य मद्यपानाव्यभिचारात्तथात्वम्। काश्यंराजभेदं पाति नरकात् पा--क। काश्यस्य नृपस्य

२ पुत्रभेदे काश्यशब्दे उदा॰। कश्यपस्य गोत्रापत्यम् विदा॰अञ्।

३ कश्यपगोत्रापत्ये पुंस्त्री।

४ कणादे मुनौ पु॰त्रिका॰।

५ मृगभेदे पुंस्त्री मेदि॰ स्त्रियां जातित्वात्ङीष्। कश्यपस्येदम् अण्।

६ कश्यपसम्बन्धिनि त्रि॰
“एष एव दितेर्गर्भ ओजः काश्यपमर्पितम्” भाग॰

३ ,

१५ ,

११ श्लो॰। स्त्रियां ङीप्। सा च

७ पृथिव्याम् स्त्री तस्याःतत्सम्बन्धितया तत्सुतत्वकथा भा॰ आनु॰

१५

४ अ॰ उक्तायथा
“इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा। अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ। धारि-णीं सर्वभूतानामयं प्राप्य बरो नृपः। कथमिच्छति मांदातुं द्विजेभ्यो ब्रह्मणः सुताम्। साऽहं त्यक्त्वा गमि-ष्यामि भूमित्वं ब्रह्मणः पद{??}। अयं सराष्ट्रो नृपतिर्म्मा[Page2039-b+ 38] भूदिति ततोऽगमत्। ततस्तां कश्यपो दृष्ट्वा व्रजन्तीपृथिवीं तथा। प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहि-तः। ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता। धर्म्मोत्तरानष्टभया भूमिरासीत्ततो नृप!। एवं वर्षसहस्राणि दिव्या-नि सततं नृप!। त्रिंशतः काश्यपो राजन्! भूमिरासी-दतन्द्रिता। अथागम्य महाराज! नमस्कृत्य च कश्य-पम्। पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः”।

८ तद्गोत्रापत्यस्त्रियां स्त्री ङीप्
“काश्यपीबालाक्यमाठरीपुत्रात् काश्यपीबालाक्यमाठरीपुत्रः” शत॰ व्रा॰

१४ ,

९ ,

४ ,

३१

०९ कश्यपपत्न्यां स्त्री काश्यपेयः। कश्यपगोत्रोत्पन्नेविषचिकित्साभिज्ञे

१० ऋषिभेदे पु॰ तत्कथा भा॰ आ॰

४२ अ॰ यथा
“काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्। श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम्। तक्षकःपन्नगगश्रेष्ठो नेष्यते यमसादनम्। तं दष्टं पन्नगेन्द्रेणकरिष्येऽहमपज्वरम्। तत्र मेऽर्थश्च धर्म्मश्च भवितेतिविचिन्तयन्। तं ददर्श च नागेन्द्रस्तक्षकः काश्यपं पथि। गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः। तमव्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम्। क्व भवांस्त्वरितो यातिकिञ्च कार्य्यं चिकीर्षति। काश्यप उवाच! नृपं कुरु-कुलोत्पन्नं परीक्षितमरिन्दमम्! तक्षकः पन्नगश्रेष्ठस्ते-जसाद्य प्रधक्ष्यति। तं दष्टं पन्नगेन्द्रेण तेनाग्निसमते-जसा। पाण्डवानां कुलकरं राजानममितौजसम्। गच्छामि त्वरितं सौम्य! सद्यः कर्त्तुमपज्वरम्। तक्षकउवाच। अहं स तक्षको व्रह्मंस्तं धक्ष्यामि महीपतिम्। निवर्त्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्। काश्य-प उवाव। अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम्। करिष्यामीति मे वुद्धिर्विद्याबलसमन्वितः। तक्षक उवाच। यदि दष्टं मयेह त्वं शक्तः किञ्चिच्चिकित्-सितुम्। ततो वृक्षं मया दष्टमिर्म जीवय काश्यप!। परंमन्त्रवलं यत्ते तद्दर्शय यतस्व च। न्यग्रोधमेनं धक्ष्यामिपश्यतस्ते द्विजोत्तम!। काश्यप उवाच। दश नागेन्द्र!वृक्षं त्वं यद्येतदभिमन्यसे। अहमेनं त्वया दष्टं जीव-यिष्ये भुजङ्गम!। सौतिरुवाच। एवमुक्तः स नागेन्द्रःकाश्यपेन महात्मना। अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्न-गोत्तमः। म वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना। आशीविषविषोपेतः प्रजज्वाल समन्ततः। तं दग्ध्वा सनगं नागः काश्यपं पुनरब्रवीत्। कुरु यत्नं द्विजश्रेष्ठ![Page2040-a+ 38] जीवयैनं वनस्पतिम्। सौतिरुवाच। भस्मीभूतं ततोवृक्षं पन्नगेन्द्रस्य तेजसा। सर्वं भस्म समाहृत्य काश्यपोवाक्यमब्रवीत्। विद्याबलं पन्नगेन्द्र! पश्य मेऽद्य वन-स्पतौ। अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम!। ततःस भगवान् विद्वान् काश्यपो द्विजसत्तमः। भस्मराशी-कृतं वृक्षं विद्यया समजीवयत्। अङ्कुरं कृतवांस्तत्र ततःपर्णद्वयान्वितम्। पलाशिनं शाखिनञ्च तथा विटपिनंपुनः। तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना। उवाच तक्षको व्रह्मन्नैतदत्यद्भुतं त्वयि। द्विजेन्द्र! यद्विषंहन्या मम वा मद्विधस्य वा। कं त्वमर्थमभिप्रेप्सुर्यासितत्र तपोधन!। यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्त-मात्। अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्। विप्र-शापाभिभूते च क्षीणायुषि नराधिपे। घटमानस्य तेविप्र! सिद्धिः सशयिता भवेत्। ततो यशः प्रदीप्तन्ते त्रिषुलोकेषु विश्रुतम्। निरंशुरिव वर्म्मांशुरन्तर्द्धानमितोव्रजेत्। काश्यप उवाच। धनार्थी याम्यहं तत्र तन्मेदेहि भुजङ्गम!। ततोऽहं विनिवर्त्तिष्ये स्वापतेयं प्रगृह्य वै। तक्षक उवाच। यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्। अहमेव प्रदास्यामि निवर्त्तस्व द्विजोत्तम!। सौतिरुवाच। तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तर्मः। प्रदध्यौ सुम-हातेजा राजानं प्रति बुद्धिमान्। दिव्यज्ञानात् स तेजस्वीज्ञात्वा तं नृपतिं तदा। क्षीणायुषं पाण्डवेयमपावर्त्ततकाश्यपः”।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यपः [kāśyapḥ], 1 N. of a celebrated sage.

N. of Kaṇāda.

An epithet of Aruṇa. -पी The earth; Mb.13.62.62. तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः Bv.1.68. -पम् Flesh.

Comp. नन्दनः an epithet of Garuḍa.

N. of Aruṇa.

a god.

a demon.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काश्यप mf( ई)n. belonging to कश्यप, relating to or connected with him( e.g. काश्यपी देवी, the earth Hariv. 10645 ; See. काश्यपीbelow) MBh. etc.

काश्यप mf( ई)n. ( g. बिदा-दि)a patr. fr. कश्यप(designating an old grammarian [ VPra1t. Pa1n2. 8-4 , 67 ] and many other persons , including some , whose family-name was unknown [Comm. on Ka1tyS3r. ] ; many subdivisions of काश्यपfamilies are known e.g. उरुबिल्वा-क्, गया-क्, दशबल-क्, नदी-क्, महा-क्हस्ति-क्)

काश्यप mf( ई)n. N. of अरुण(the sun) VP. iii , 12 , 41

काश्यप mf( ई)n. of विष्णुL.

काश्यप mf( ई)n. a sort of deer L.

काश्यप mf( ई)n. a fish L.

काश्यप n. N. of different सामन्s A1rshBr.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a सम्हिता-कर्ता: officiated as अध्वर्यु at परशुराम's sacrifice and got the whole earth as fee; फलकम्:F1:  Br. II. ३५. ६३ and ६६; III. 8. ८६; ४७. ४७ and ६०; IV. 9. 3.फलकम्:/F a मन्त्रकृत् and a ब्रह्मवादिन्. फलकम्:F2:  M. १४५. ९८ and १०६; वा. ५९. १०२.फलकम्:/F
(II)--a sage of सावर्णि epoch; a pravara. M. 9. ३२: १९९. १६.
(III)--a son of वालि, the avatar of the lord. वा. २३. १६०. [page१-375+ ३४]
(IV)--a son of गोकर्ण, the अवतार् of the १६थ् द्वापर। वा. २३. १७३.
(V)--(काश्यप Havis2ma1n); a son of Bhautya Manu; फलकम्:F1:  वा. १००. १०७, ११६; १०६. ३४.फलकम्:/F of Vatsa gotra; फलकम्:F2:  Ib. ६२. १६; ६४. २८.फलकम्:/F a pupil of सूत; फलकम्:F3:  Ib. ६१. ५५.फलकम्:/F had three आदित्यस् as wives, and out of काम for देवकी took human birth as कृष्ण; फलकम्:F4:  Ib. ९६. २३०.फलकम्:/F one of the seven sages; अ तपस्वी। फलकम्:F5:  Ib. १००. ८२. १००. ९६.फलकम्:/F
(VI)--(see कश्यप) married thirteen daughters of दक्ष; फलकम्:F1:  Vi. I. १५. ७७ and १०३.फलकम्:/F blessed दिती with a son capable of van- quishing Indra; फलकम्:F2:  Ib. I. २१. ३०-2.फलकम्:/F a householder to perform rites in honour of him; फलकम्:F3:  Ib. III. 1. ३२; ११. ४३.फलकम्:/F resides in the sun's chariot in the month of मार्ग- शीर्ष। फलकम्:F4:  Ib. II. १०. १३.फलकम्:/F
(VII)--a son of Suhotra. Vi. IV. 8. 5.
(VIII)--a son of Parvasa. वा. २८. १३.
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśyapa : m.: A mythical crane.

[See Nāḍījaṅgha and Rājadharman]


_______________________________
*5th word in left half of page p12_mci (+offset) in original book.

Mahabharata Cultural Index

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāśyapa : m.: A mythical crane.

[See Nāḍījaṅgha and Rājadharman]


_______________________________
*5th word in left half of page p12_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काश्यप&oldid=496159" इत्यस्माद् प्रतिप्राप्तम्