यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाजः, पुं, (गङ्गायाः गङ्गागर्भात् जायते इति । जन् + डः ।) भीष्मः । इति शब्दरत्नावली ॥ कार्त्तिकेयः । इति भारतम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाज¦ पु॰ गङ्गातो जायते जन--ड।

१ भीष्मे

२ कार्त्तिकेयेच तत्र भीष्मस्य गङ्गातो जन्मकथा।
“स राजा शान्तनुर्धीमान् देवराजसमद्युतिः। बभूवमृगयाशीलः सततं वनगोचरः। स मृगान महिषां-श्चैव विनिघ्नन्राजसत्तमः। गङ्गामनुचचारैकः सिद्ध-चारणसेविताम्। स कदाचिन्महाराज! ददर्श परमांस्त्रियम्। जाज्वल्यमानां वपुषा साक्षाच्छियमिवा-पराम्। सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्। सूक्ष्माम्बरधरामेकां पद्मोदरसभप्रभाम्। तां दृष्ट्वाहृष्टरोमाऽभूद्विस्मितो रूपसम्पदा। पिबन्निव च नेत्राभ्यांनातृप्यत नराधिपः। सा च दृष्ट्वैव राजानं विचरन्तंमहाद्युतिम्। स्नेहादागतसौहार्द्दा नातृप्यत विला-सिनी। तामुवाच ततो राजा सान्त्वयन् श्लक्ष्णयागिरा। देवी वा दानवी वा त्वं गन्धर्वी वाथवाप्सराः। यक्षी वा पन्नगी वापि मानुषी वासुमध्यमे!। याचे त्वां सुरगर्भाभे! भार्य्या मे भवशोभने। ” भा॰ आ॰

९७ अ॰।
“एतत् श्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च। वसूनां समयं स्मृत्वाऽथाभ्यागच्छदनिन्दिता। उवाचचैवं राज्ञः सा ह्लादयन्ती मनो गिरा। भविष्यामिमहीपाल! महिषी ते वशानुगा। यत्तु कुर्य्यामहंराजन्! शुभं वा यदि वाऽशुभम्। न तद्वारयितव्यास्मिन वक्तव्या तथाऽप्रियम्। एवं हि वर्त्तमानेऽहं त्वयिवत्स्यामि पार्थिव!। वारिता विप्रियञ्चोक्ता त्यजेयंत्वामसंशयम्। तथेति राज्ञा सा तूक्ता तदा भरत-सत्तम!। प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्। आसाद्य शान्तनुस्ताञ्च बुभुजे कामतो वशी। न प्रष्ट-व्येति मन्वानो न स तां किञ्चिदुक्तवान्। स तस्याःशीलवृत्तेन रूपौदार्य्यगुणेन च। उपचारेण च रहस्तुतोष जगतीपतिः। दिव्यरूपा हि सा देवी गङ्गात्रिपथगामिनी। मानुषं विग्रहं कृत्वा श्रीमन्तं वर-वर्णिनी। भाग्योपनतकामस्य भार्य्योवोपस्थिताऽभवत्। शान्तनोराजसिंहस्य देवराजसमद्युतेः। सम्भोग-म्नेहचातुर्य्यैर्हावलास्यमनोहरैः। राजानं रमयामास[Page2491-b+ 38] तथा रेमे तयैव सः। स राजा रतिसक्तत्वादुत्तमस्त्री-गुणैर्हृतः। संवत्सरानृतून् मासान् बुबुधे न बहून्गतान्। रममाणस्तया सार्द्धं यथाकामं नरेश्वरःअष्टावजनयत् पुत्रांस्तस्याममरसन्निभान्। जातं जातंच सा पुत्रं क्षिपत्यम्भसि भारत!। प्रीणामि च त्वामि-त्युक्त्वा गङ्गास्रोतस्यमज्जयत्। तस्य तन्न प्रियं राज्ञःशान्तनोरभवत्तदा। न च तां किञ्चनोवाच त्यागा-द्भीतो महीपतिः। अथैनामष्टमे पुत्रे जाते प्रहसती-मिव। उवाच राजा दुःखार्त्तः परीप्सन् सुतमा-त्मनः। मा वधीः कासि कस्यासि किञ्च हंसि सुता-निति। पुत्रघ्नि! सुमहत् पापं संप्राप्तं ते विगर्हिते!। स्त्र्युवाच। पुत्रकाम! न ते हन्मि पुत्रं पुत्रवतां वर!। जीर्णोऽस्तु मम वासोऽयं यथा स समयः कृतः। अर्हगङ्गा जह्नुसुता महर्षिगणसेविता। देवकार्य्यार्थसि-द्ध्यर्थमुषिताहं त्वया सह। इमेऽष्टौ वसवो देवामहाभागा महौजसः। वशिष्ठशापदोषेण मानुषत्व-मुपागताः। तेषां जनयिता नान्यस्त्वदृते भुविविद्यते। मद्विधा मानुषी धात्री लोके नास्तीहकाचन। तेषाञ्च जननीहेतोर्मानुषत्वमुपागता। जन-यित्वा वसूनष्टौ जिता लोकास्त्वयाऽक्षयाः। देवानांसमयस्त्वेष वसूनां संश्रितो मया। जातं जातंमोक्षयिष्ये जन्मतो नानुषादिति। तत्ते शापाष्ठि-निर्मुक्ता आपवस्य महात्मनः। स्वस्ति तेऽस्तु गमि-ष्यामि पुत्रं पाहि महाव्रतम्। एष पर्य्यायवासोमे वसूनां सन्निधौ कृतः। मत्प्रसूतं विजानीहिगङ्गादत्तमिमं सुतम्”

९८ अ॰।
“स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्। भागी-रथीमल्पजलां शान्तनुर्दृष्टवान्नृपः। तां दृष्ट्वा चिन्तया-भास शान्तनुः पुरुषर्षभः। स्यन्दते किं त्वियं नाद्यसरिच्छ्रेष्ठा यथा पुरा। ततो निमित्तमन्विच्छन्ददर्शस महामनाः। कुमारं रूपसम्पन्नं वृहन्तञ्चारु-दर्शनम्। दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम्। कृत्स्नां गङ्गा समावृत्य शरैस्तीक्ष्णैरवस्थितम्। तांशरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके। अभवद्विस्मितोराजा दृष्ट्वा कर्मातिमानुषम्। जातमात्रं पुरा दृष्ट्वातं पुत्रं शान्तनुस्तदा। नोपलेमे स्मृतिं धीमानभि-ज्ञातुं तमात्मजम्। स तु तं पितरं दृष्ट्वा मोहया-मास मायया। संमोह्य तु ततः क्षिप्रं तत्रैवान्तर-[Page2492-a+ 38] घीयत। तदद्भुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः। शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह। दर्शयामासतं गङ्गा बिभ्रती रूपमुत्तमम्। गृहीत्वा दक्षिणेपाणौ तं कुमारमलङ्कृतम्। अलङ्कृतामाभरणैर्विर-जोऽम्बरघारिणीम्। दृष्टपूर्वामपि स तां नाभ्यजानात्स शान्तनुः। गङ्गोवाच। यं पुत्रमष्टमं राजंस्त्वंपुरा मय्यविन्दथाः। स चायं पुरुषव्याघ्र! सर्वास्त्र-विदनुत्तमः। गृहाणेमं महाराज! मया संवर्द्धितंसुतम्। आदाय पुरुषव्याघ्र! नयस्वैनं गृहं विभो!” भा॰ आ॰

१०

० अ॰
“गङ्गाज। लङ्केशवनारिकेतुः” भा॰ वि॰

३९ अ॰। गङ्गाजेत्यत्र मुद्रितपुस्तके नदीजेति पाठः। कार्त्तियेस्य गङ्गातो जन्मकथा अग्निगर्भशब्दे

५५ पृ॰उक्ता। गङ्गाजातगङ्गातनयादयोऽप्युभयत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाज¦ m. (-जः)
1. A name of BHISHMA.
2. A name of the deity KARTI- KEYA. E. गङ्गा the river goddess, and ज born; the son of GANGA.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गङ्गाज/ गङ्गा--ज m. " the son of गङ्गा" , N. of the deity कार्त्तिकेयMBh.

गङ्गाज/ गङ्गा--ज m. of भीष्मL.

"https://sa.wiktionary.org/w/index.php?title=गङ्गाज&oldid=320354" इत्यस्माद् प्रतिप्राप्तम्