यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजकूर्म्माशी, [न्] पुं, (गजश्च कूर्म्मश्च तौ गज- कूर्म्मौ । तौ अश्नातीति । अश ग भोजने + णिनि ।) गरुडः । इति शब्दरत्नावली ॥ (पुरा हि कदाचित् विभावसुसुप्रतीकनामानौ द्वौ भ्रातरौ ब्राह्मणकुमारौ पितृधनार्थमन्योन्य- मभिशप्तौ गजत्वं कूर्म्मत्वं च गतावपि पूर्ब्बवैर- मनुस्मरन्तो सुचिरं युध्यमानौ प्रजापतिकश्यपा- दिष्टेन पतगेश्वरेण गरुडेन भक्षितौ । एतद्वि- वरणन्तु महाभारतीयादिपर्व्वणि सौपर्णे २९ अध्याये सविस्तरं दर्शनीयम् ॥)

"https://sa.wiktionary.org/w/index.php?title=गजकूर्म्माशी&oldid=130933" इत्यस्माद् प्रतिप्राप्तम्