यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गजसाह्वयम्, क्ली, (गजनाम्ना नरपतिना सह आह्वयो नाम यस्य ।) हस्तिनापुरम् । इति शब्दरत्नावली ॥ (यथा, महाभारते । ३ । १ । ८ । “ततोद्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः । घार्त्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=गजसाह्वयम्&oldid=130971" इत्यस्माद् प्रतिप्राप्तम्