यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गणकः, पुं, (गणयति शुभाशुभग्रहभोगजनितफलं निरूपयतीति । गण त् क सङ्ख्याने + कर्त्तरि ण्वुल् ।) दैवज्ञः । ज्योतिर्वित् । तत्पर्य्यायः । साम्बत्- सरः २ ज्योतिषिकः ३ दैवज्ञः ३ मौहूर्त्तिकः ५ मौहूर्त्तः ६ ज्ञानी ७ कार्त्तान्तिकः ८ । इत्यमरः । २ । ८ । १४ ॥ ज्योतिषिकः ९ । इति तट्टीका ॥ स तु वर्णसङ्करजातिविशेषः । देवलाद्वैश्यागर्भजातः । तस्य कर्म्म तिथिवारादिज्ञापनम् । इति परा- शरपद्धतिः ॥ स तु अस्पृश्यः । यथा, -- “कलिकाले महाशानि ! पाषण्डा बहवो जनाः । सङ्गदोषान्महेशानि ! तत्क्षणाद्धानितां व्रजेत् ॥ तस्मात् प्रयत्नतो देवि ! संसर्गं वर्ज्जयेत् सुधीः । वरं चाण्डालसंस्पर्शं कुर्य्यात्तु साधकोत्तमः ॥ तथाप्यस्पृ श्यगणकं सर्व्वदा तं परित्यजेत् ॥” इति शाक्तानन्दतरङ्गिण्यां षोडशोल्लासे महिष- मर्द्दिनीतन्त्रवचनम् ॥ तस्य लक्षणं यथा, -- “ज्योतिःशास्त्रविशेषज्ञः सुन्दराङ्गः सभापटुः । कुलक्रमागतः शुद्धो गणकः स्यान्महीपतेः ॥” इति युक्तिकल्पतरुः ॥ (यदि च शास्त्रविशेषे गणकस्य निन्दादिकं श्रूयते तत्तु केवलं नक्षत्रजीविन एवेति बोध्यम् । प्रकृतज्योतिःशास्त्रन्तु द्बिजातिभिरेवा- वश्यमध्ययनीयं वेदाङ्गत्वात् । यथा, -- “संयुतोऽपीतरैः कर्णनासादिभि- श्चक्षुषाङ्गेन हीनो न किञ्चित् करः । तस्माद्द्विजैरध्ययनीयमेतत् पुण्यं रहस्यं परमञ्च तत्त्वम् ॥” इति सिद्धान्तशिरोमणिः ॥ * ॥ प्रजापतिपुत्त्रास्ताराविशेषकेतवः । यथा, -- “ताराः पुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ पुत्त्राः ॥” इति बृहत्संहिता । ११ । २५ ॥ संकीर्णजातिविशेषः । यथोक्तम् । “चर्म्मकारस्य द्वौ पुत्त्रौ गणको वाद्यपूरकः ॥”)

"https://sa.wiktionary.org/w/index.php?title=गणकः&oldid=131031" इत्यस्माद् प्रतिप्राप्तम्