यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनाघनः, पुं, (हन्तीति । हन वधे + पचाद्यच् । ततः “हन्तेर्घत्वञ्च ।” ३ । १ । १३४ । इत्यस्य वार्त्तिं इति द्वित्वं आक् चाभ्यासस्य ।) इन्द्रः । घातुकमत्तहस्ती । वर्षुकमेघः । इत्यमरः । ३ । ३ । १०९ ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३६५ । “आम्भोजानि घनाघनव्यवहितोऽप्युल्लाघयत्यंशुमान् दूरस्थोपि पयोधरोऽतिशिशिरस्पर्शं करोत्यात- पम् ॥”) अन्योन्यघट्टनं इति धरणी ॥

घनाघनः, त्रि, निरन्तरः । (हन्तीति । हन् + अच् । “हन्तेर्घत्वञ्च ।” इति दित्वं आक् चाभ्यासस्य ।) घातुकः । इति हेमचन्द्रः ॥ (यथा, ऋग्वेदे । १० । १०३ । १ । “आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=घनाघनः&oldid=133174" इत्यस्माद् प्रतिप्राप्तम्