यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङ, ङकारः । स तु व्यञ्जनपञ्चमवर्णः । अस्योच्चारण- स्थानं सनासिककण्ठः । इति व्याकरणम् ॥ (“जिह्वामूले तु कुः प्रोक्तः ।” इति । “अनुस्वारयमानाञ्च नासिकास्थानमुच्यते ॥” इति च शिक्षोक्तेस्तथात्वम् ॥) अस्य स्वरूपं यथा, कामधेनुतन्त्रे । “ङकारं परमेशानि ! स्वयं परमकुण्डली । सर्व्वदेवमयं वर्णं त्रिगुणं लोललोचने ! ॥ पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम् ॥” अपि च । “ऊर्द्ध्वाधःक्रमतो रेखा किञ्चिदाकुञ्चिता ततः । अधोगता कुण्डली तु मात्रा शक्तिस्वरूपिणी ॥ रेखात्रयेषु ब्रह्मेशविष्णवः सन्ति देवताः ॥ ध्यानं यथा, वर्णोद्धारतन्त्रे । “धूम्रवर्णां महाघोरां ललज्जिह्वां चतुर्भुजाम् । पीताम्बरपरीधानां साधकाभीष्टसिद्धिदाम् ॥ एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत् ॥” तस्य नामानि यथा, -- “ङः शङ्खी भैरवश्चण्डो बिन्दूत्तंसः शिशुप्रियः । एकरुद्रो दक्षनखः खर्परो विषयस्पृहा ॥ कान्तिः श्वेताह्वयो धीरो द्विजात्मा ज्वालिनी वियत् । मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ॥ एकनेत्रो महानन्दो दुर्द्धरश्चन्द्रमा यतिः । शिवयोषा नीलकण्ठः कामेशी च मयांशुकौ ॥” इति नानातन्त्राणि ॥ (मातृकान्यासे अस्य दक्षिणकराङ्गुलाग्रेषु न्यस्यता ॥)

ङः, पुं, (ङयते गृह्य इन्द्रियैरिति । ङु + बाहुलकात् डः ।) विषयः । विषयस्पृहा । इति मेदिनी । ङे । १ ॥ भैरवः । इत्येकाक्षरकोषः ॥ (यथा, स्तुतिपञ्चाशत् । “ङवन्दिते ! ङलिप्सिते ! ङकारवर्णरूपिणि ! ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ ङु--बा॰ ड।

१ विषये

२ विषयस्पृहायां मेदि॰

३ भैरवे एकाक्षरकोषः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङ¦ The fifth consonant of the Sanskrit alphabet, and the nasal of the first class; the sound of this letter corresponds with that of the nasal N in Song, &c. or in the French word bon.

ङ¦ m. (-ङः)
1. An object of sense.
2. Desire, wish for any sensual object. E. ङु to sound, affix. ड | विषये विषयस्पृ हायां भैरवे च |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङ [ṅ], No word in general use begin with this letter.

ङः [ṅḥ], 1 An object of sense.

Desire, wish.

An epithet of Śiva; ङः प्राणस्तुरगो ङा धरा रमा and ङं वितानंच

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ङ the 5th consonant of the Sanskrit alphabet , nasal of the 1st class. No word in use begins with this letter

ङ it is usually found as the 1st member of a conjunct consonant preceded by a vowel.

ङ m. an object of sense L.

ङ m. desire for any sensual object L.

ङ m. शिव( भैरव) L.

"https://sa.wiktionary.org/w/index.php?title=ङ&oldid=507765" इत्यस्माद् प्रतिप्राप्तम्