चतुरङ्गुलः
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्कल्पद्रुमः
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
चतुरङ्गुलः, पुं, (चतस्रः अङ्गुलयः परिमाणमस्य । समासे अच् ।) आरग्बधवृक्षः । इत्यमरः । २ । ४ । २३ ॥ (यथा, सुश्रुते सूत्रस्थाने ४४ अध्याये । “विरेचनानि सर्व्वाणि विशेषाच्चतुरङ्गुलात् ॥”) चतुरङ्गुलिपरिमिते त्रि ॥ (यथा, शतपथ- ब्राह्मणे । १० । २ । २ । १ । “स चतुरङ्गुलमेवोभयतोऽन्तत उपगूहति ॥”)