यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैतन्यम्, क्ली, (चेतन एवेति । स्वार्थे भावे वा ष्यञ् ।) प्रकृतिः । इति राजनिर्घण्टः ॥ चेतना ॥ (यथा, “चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते । ज्ञानक्रिये जगत्कर्त्त्यौ दृश्येते चेतनाश्रये ॥ नेष्यते वैशेषिकैः साङ्खैश्चेति शेषः ।” इति शब्दार्थ- चिन्तामणिः ॥ तथाच, याज्ञवल्क्ये । ३ । ८१ । “मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः । सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि ॥”)

चैतन्यः, पुं, (चेतन एव । स्वार्थे ष्यञ् ।) भगवद- तारविशेषः । तस्य प्रमाणं यथा, -- “श्रुत्वा तु कलिधर्म्मांस्तान् ब्रह्मा लोकपितामहः । सर्व्वलोकहितार्थाय प्रोवाच मधुसूदनम् ॥ भविष्यति कलौ केनोपायेन धर्म्मपालनम् । भक्तिमार्गस्थितिः कस्मात्तद्बदस्व जगद्गुरो ! ॥ श्रीभवानुवाच । अवतीर्णो भविष्यामि कलौ निजगणैः सह । शचीगर्भे नवद्वीपे स्वर्धुनीपरिवारिते ॥ अप्रकाश्यमिदं गुह्यं न प्रकाश्यं वहिर्मुखे । भक्तावतारं भक्ताख्यं भक्तं भक्तिप्रदं स्वयम् ॥ मन्मायामोहिताः केचिन्न ज्ञास्यन्ति वहिर्म्मुखाः । ज्ञास्यन्ति मद्भक्तियुताः साधवो न्यासिनोऽमलाः ॥ कृष्णावतारकाले याः स्त्रियो ये पुरुषाः प्रियाः । कलौ तेऽवतरिष्यन्ति श्रीदामसुवलादयः ॥ चतुःषष्टिर्महान्तस्ते गोपा द्वादश बालकाः । धर्म्मसंस्थापनार्थाय विहरिष्यामि तैरहम् ॥ काले नष्टं भक्तिपथं स्थापयिष्याम्यहं पुनः । कृष्णश्चैतन्यगौराङ्गो गौरचन्द्रो गौरहरिः ॥ शचीसुतः प्रभुर्गौरो नामानि भक्तिदानि मे । गच्छन्तु भुवि ते पुत्त्रा जायन्तां भक्तरूपिणः ॥ धर्म्मसंस्थापनं काले कुर्व्वन्तु ते ममाज्ञाया । कृष्णावतारकाले ये मद्भक्तास्तान् शृणु क्रमात् ॥ श्रीदामनामगोपालो मम रामस्य च प्रियः । अभिराम इति ख्यातः पृथिव्यां स भविष्यति ॥ सुदामनामगोपालः श्रीमान् सुन्दरठक्कुरः । वसुदामप्रियसखः श्रीधनञ्जयपण्डितः ॥ सुबलो मे प्रियसखो गौरीदासाख्यपण्डितः । कमलाकरपिप्पलाइः पूर्ब्बख्यातो महाबलः ॥ महाबाहुर्गोपबालः श्रीमान् साहसपण्डितः ॥ पुरुषोत्तमो वैश्यकुले स्तोककृष्णः प्रियो मम । अर्ज्जुनः पूर्ब्बदेहे यः कलौ श्रीपरमेश्वरः ॥ पूर्ब्बप्रियो लवङ्गो मे कृष्णाख्यः स कलौ युगे । श्रीधरः श्रीधरसमः पूर्ब्बे श्रीमधुमङ्गलः ॥ सुबलो बलरामसखः कलौ श्रीलहलायुधः । द्वादशैते भविष्यन्ति कलौ मद्धर्म्मरक्षणे ॥ चतुःषष्टिर्महान्तो ये स्त्रियः केचिच्च पूरुषाः । पुरा गोपाङ्गनाः ख्याताः कलौ ताः पुरुषा भुवि ॥ यतिर्यस्मात् कलौ चाहं तदर्थे पुरुषाः स्त्रियः । नीलाम्बरश्चक्रवर्त्ती गर्गः ख्यातो मुनिः पुरा ॥ अतिप्रिया राधिका मे श्रीगदाधरपण्डितः । राधिकायाः प्रियांशः स श्रीगदाधरठक्कुरः ॥ मधुमती प्रियसखी श्रीनरहरिसंज्ञकः । वृन्दा देवी प्राणसखी श्रीमुकुन्दः कलौ युगे ॥ चन्द्रावली प्राणतुल्या कविराजः सदाशिवः । ललिता या सखी मुख्या जगदानन्दपण्डितः ॥ विशाखा या प्रियसखी श्रीदामोदरनामकः । वनमाली कविराजः श्रीविशाखा सखी मम ॥ श्रीरघुनाथभट्टश्च रङ्गदेवी मम प्रिया । श्रीगदाधरभट्टस्तु सुदेवी सा मम प्रिया ॥ प्रबोधानन्दविख्यातस्तुङ्गविद्या तथा प्रिया । श्रीलराघवगोस्वामी चम्पकाख्या लता प्रिया ॥ यः श्यामं दधदाशु वर्णकममुं श्यामो युगे द्बापरे सोऽयं गौरविधुर्व्विभाति कलयन्नामावतारं कलौ ॥ नित्यानन्दो भक्तरूपो व्रजे यः श्रीहलायुधः । भक्तावतार आचार्य्योऽद्वैतो थः श्रीसदाशिवः ॥” इति गौरगणोद्देशः ॥ (अयमेव भगवांश्चैतन्यदेवो नवीनवैष्णवसम्प्र- दायविशेषस्य प्रवर्त्तकस्तत्सम्पदायैश्चोपास्येष्ट- देवत्वेनासौ परिगृहीतश्च । असौ एव वृन्दावन- रमण-श्रीकृष्णस्य पूर्णावतार इति केचित्, परैस्तु प्रामाणिकग्रन्थवचनादर्शनात् तन्न मन्यते अत- एवास्मिन् विषये पण्डितानां प्रायशो मतभेदो दृश्यते । स तु प्रभुः (१४०७) सप्ताधिकचतुर्द्दश- शतशके कुम्भस्थे सवितरि पौर्णमास्यां तिथौ शुक्रवारे प्रदोषसमये नवद्वीपाख्यनगर्य्यां प्रादु- र्बभूव । तस्मिन्नेव महामहिम्नस्तस्य भगवतो जन्मसमये चन्द्रदेवं प्रति सैंहिकेयोपरागो जातः । एतदुपलक्षीकृत्य गङ्गास्नानार्थं बहवो लोका नानादिग्देशादागत्य तत्र मिलिताः । तदा ग्रस्तेऽपि राहुणा चन्द्रमसि भक्तजनकुमुद- बान्धवो गौरचन्द्रः समवेतलोकानां हरिसंकी- र्त्तनप्रभृतिभिर्मङ्गलाचरणैः सहशचीपूर्ब्बपर्व्वता- दुदियाय । भवन्ति हि शुभसूचकानि महता- माविभूतानि । अतस्तदापि प्रसन्ना दिक् शैत्यसौगन्ध्यमान्द्यादिगुणगणाढ्यो मलयसमी- रणः प्रसन्नानि च साधु जनमनांसि समभवन् । अस्य पिता जगन्नाथमिश्रस्तु पुरा श्रीहट्टनिवासी आसीत् । कदाचित् गङ्गास्नानार्थमेव नवद्वीप- मागत्य विप्रचक्रवर्त्तिकुलतिलकस्य नीलाम्बर- शर्म्मणः शचीनाम्नीं कन्यां परिणीतवान् । ततो गच्छति काले अयं चैतन्यदेवः शचीगर्भे त्रयोदशमासं यावदुषित्वा जगन्नाथमिश्रस्य दशमपुत्त्रत्वेन समभवत् । अस्य पूर्ब्बजो विश्वरूपो नाम जगन्नाथमिश्रस्यापरः पुत्त्र आसीत् । स तु यौवन एव ज्ञानवैराग्यविशारदो दारपरि- ग्रहमनङ्गीकुर्व्वन् पारिव्राज्यधर्म्मं समाश्रयत् । अथ चैतन्यदेवस्य जातकर्म्मादिसं स्कारे यथा- कालं क्रमशो निवृत्ते अस्य मातामहो नीला- म्बरचक्रवर्त्ती सुलक्षणादिकमवलोक्य विश्वम्भर इति नाम्नैनमाजुहाव । शचीदेवी तु पुनः पुनः पुत्त्रधनेन वञ्चिता प्रियतममेनं कनीयांसं संसार- स्थितिदीर्घजीवनकामनया निमाइ इत्याख्यया पौरवासिनस्तु असामान्यरूपलावण्यतया परम- समादरेण गौर इत्याख्यया च आहूतवन्तः । परं धर्म्मरसिकानां भक्तानां समाजे, शाक्य- सिंहस्य बुद्धदेव इव अस्य महाप्रभुरिति चैतन्यदेव इति च आख्या प्रसिद्धा ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैतन्य¦ न॰ चेतन एव, चेतनस्य भावो वा ष्यञ्। वेदान्तिमते चित्स्वरूपे

१ परमात्मनि न्यायादिमते

२ आत्मधर्म्मेचेतनायाम्।
“चैतन्यमात्मनोविद्यान्न बिभेति कुतश्चन” श्रुतिः वेदान्तिमते राहोः शिर इतिवद् अभेदे षष्ठी,अन्यमते भेदे।
“शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः” भाषा॰

३ प्रकृतौ मेदि॰।
“प्रकृतिश्च दृष्टान्तानुपरोधात्” शा॰ सू॰ चैतन्यस्य जगत्प्रकृतित्वाऽङ्गीकारेण तथा-त्वम्।
“चैतन्यं परमाणूनां प्रधानस्यापि नेष्यतेज्ञानक्रिये जगत्कर्त्त्य्रौ दृश्येते चेतनाश्रये” वेदान्तका॰। चेतन एव स्वार्थे ष्यञ्।

३ शचीगर्भजाते[Page2966-a+ 38] कलौ कृष्णावतारभेदे अनन्तसंहिता। तस्या न प्रामा-णिकत्वमिति स्मार्त्तानुयायिनः। वैष्णवास्तु तन्मूलतयैवचैतन्यदेवस्य कृष्णावतारत्वमिच्छन्ति। वयं तु तस्याःप्रामाणिकत्वे संवादिमूलग्रन्थान्तरस्यादर्शनात् उदासीनाइत्यतः न किञ्चित् ब्रूमहे। यदि चासौ अवतारःयदि वा न, तथापि तस्य वैष्णवसम्प्रदायगुरुत्वात् पूज्यत्वंमन्यामहे चैतन्यचन्द्रोदयः चैतन्यचरितामृतं चैतन्य-भागवतम् इत्यादयो ग्रन्थाः तन्माहात्म्यावेदकावैष्णसम्प्रदायप्रसिद्धाः सन्ति।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैतन्य¦ n. (-न्यं)
1. Soul, spirit, the deity considered as the essence of all being.
2. Sense, consciousness. m. (-न्यः) A modern reformer of the Vaishnava faith, considered in Bengal as an Avatara of KRISH- NA. E. चेतन intellect, and ष्यञ् aff. चेतनः एव चेतनस्य भावः वा--ष्यञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैतन्यम् [caitanyam], [चेतनस्य भावः ष्यञ्]

Spirit, life, intelligence, vitality, sensation.

Soul, spirit, mind; U.1.36.

Consciousness, feeling, sensation, sense; U.1.48.

(In Vedānta phil.) The Supreme Spirit considered as the essence of all being and source of all sensation.-Comp. -भैरवी f. N. of a Rāgiṇī. -न्यः N. of a modern reformer of the Vaiṣṇava faith.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैतन्य n. (fr. चेतन)consciousness MBh. xiv , 529 Sus3r. i , 21 , 24. etc.

चैतन्य n. intelligence , sensation , soul , spirit KapS. iii , 20 Sa1m2khyak. etc.

चैतन्य n. the Universal Soul or Spirit

चैतन्य m. N. of a reformer of the वैष्णवfaith (born about 1485 A.D. RTL. 138 ).

"https://sa.wiktionary.org/w/index.php?title=चैतन्य&oldid=499594" इत्यस्माद् प्रतिप्राप्तम्