यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रिका, स्त्री, (छत्त्रा एव । छत्त्रा + स्वार्थे कन् । अत इत्वञ्च ।) शिलीन्ध्रम् । को~डकछाता इति भाषा ॥ तत्पर्य्यायः । गोमयच्छत्त्रिका २ दिली- रम् ३ शिलीन्ध्रकम् ४ उर्व्वङ्गम् ५ वसारोहम् ६ गोलासम् ७ । इति हारावली ॥ छत्त्राकम् ८ । इति स्मृतिः ॥ उच्छिलीन्ध्रम् ९ । इति श्रीभाग- तम् ॥ करीषेक्षुपलालपृथ्वीबेणुजच्छत्त्रिकायाः सामान्यगुणाः । शीतत्वम् । कषायत्वम् । स्वादु- त्वम् । पिच्छिलत्वम् । गुरुत्वम् । छर्द्द्यतीसार- ज्वरश्लेष्मरोगकारित्वञ्च ॥ पलालजच्छत्त्रिका- गुणाः । पाके स्वादुरसत्वम् । रूक्षत्वम् । दोष- कारित्वञ्च ॥ शुचिस्थानकाष्ठवंशगोष्ठजश्वेत- च्छत्त्रिकाया गुणः । अतिदोषकारित्वम् । अन्य- च्छत्त्रिकास्तेभ्यो विगर्हिताः । इति राजवल्लभः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रिका¦ स्त्री छत्त्रं तदाकारं पुष्पं वाऽस्त्यस्य ठन्।

१ शिलीन्ध्रे स्वेदजे शाकभेदे हारा॰ तस्या उत्पत्ति-स्थानादिकं भावप्र॰ उक्तं यथा
“उक्तं संस्वेदजं शाकं भूमिच्छत्रं शिलीन्ध्रकम्। क्षितिगोमयकाष्ठेषु वृक्षादिषु तदुद्भवेत्। सर्वे संस्वेदजाःशाकादोषलाः पिच्छलाश्च ते। गुरवश्छर्द्यतीसारज्वर-श्लेष्पामयप्रदाः। श्वेतशुभ्रस्थलीकाष्ठवंशयोमयसम्भवाः। नातिदोषकरास्ते स्युः शेषास्तेभ्योविगर्हिताः”।

२ छत्त्र-विशिष्टे त्रि॰ ततः पुरोहिता॰ भावे यक्। छात्त्रिक्यछत्त्रयुक्तत्वे न॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रिका f. a parasol , 323 and 1446

"https://sa.wiktionary.org/w/index.php?title=छत्त्रिका&oldid=372225" इत्यस्माद् प्रतिप्राप्तम्