यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दः, [स्] क्ली, (चन्दयति आह्लादयति चन्द्यतेऽनेन वा । चदि आह्लादे + “चन्देरा- देश्च छः ।” उणां । ४ । २१८ । इति असुन् चस्य छश्च ।) वेदः । (यथा, रघुः । १ । ११ । “आसीन्महीक्षितामाद्यः प्रणवच्छन्दसामिव ॥”) स्वैराचारः । अभिलाषः । (यथा, महाभारते । १२ । २०१ । १२ । “कामात्मकाश्छन्दसि कर्म्मयोगा एभिर्व्विमुक्तः परमश्नुवीत ॥”) पद्यम् । इति मेदिनी । से, २२ ॥ अस्य लक्षणं यथाह गङ्गादासः । “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तुर्य्यो द्वितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥” एषामर्थः । अक्षरसंख्यातं अक्षरगणनया परि- प्राप्तं वृत्तमुच्यते । मात्राकृता मात्रागणनया निर्णीता जातिर्जातिसंज्ञिका भवति । समं समचतुष्पादम् । अर्द्धसमं यस्य प्रथमः पादः तृतीयेन पादेन तुल्यः चतुर्थः पादो द्वितीयेन पादेन तुल्यः । विषमं पृथक्लक्षणचतुष्पादम् ॥ (तत्र समवृत्तन्तु उक्थादिसंज्ञाभेदेन षड्- विंशतिप्रकारकम् । यदुक्तं छन्दोमञ्जर्य्याम् । “आरभ्यैकाक्षरात् पादादेकैकाक्षरवर्द्धितैः । पादैरुक्थादिसंज्ञं स्याच्छन्दः षड्विंशतिं गतम् ॥ उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपू- र्ब्बिका । गायत्त्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता । शर्करी सातिपूर्ब्बा स्थादष्ट्यत्यष्टी तथा स्मृते ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः । विकृतिः संस्कृतिश्चैव तथातिकृतिरुत्कृतिः ॥” छन्दोलक्षणोपयोगिगणास्तु दश । यदुक्तं तत्रैव- “म्यरस्तजैभ्नगैर्लान्तैरेभिदशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥ गुरुरेको गकारस्तु लकारो लघुरेककः । क्रमेण चैषां रेखाभिः संस्थानं दर्श्यते यथा ॥” म ऽऽऽ, न ॥।, भ ऽ॥, य ।ऽऽ, ज ।ऽ।, र ऽ.ऽ, स ॥ऽ, त ऽऽ।, ग ऽ, ल ।) छन्दस्तु नानाविधम् । तस्य ग्रन्थाः छन्दो- विचितिपिङ्गलच्छन्दोमञ्जरीवृत्तरत्नाकरश्रुत- वोधादयः सन्ति तेषु छन्दोमञ्जर्य्याद्युक्तलक्षणो दाहरणादीनि लिख्यन्ते ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस् नपुं।

पद्यम्

समानार्थक:श्लोक,वृत्त,छन्दस्

3।3।233।1।1

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च। सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

पदार्थ-विभागः : , पौरुषेयः

छन्दस् नपुं।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

3।3।233।1।1

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च। सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्¦ न॰ छन्दयति असुन्।

१ वेदे भावे असुन्।

२ स्वैरा-चारे

३ अभिलाषे च मेदि॰।

४ कपटे। नियताक्षरबर्ण-मात्रादिसन्निवेशवशात्

५ चतुश्चरणादौ पद्ये। लौकिकतत्संज्ञाभेदाश्च वृत्तरत्नाकरादौ सलक्षणा उक्तास्ते तुतत्तच्छब्दे उक्ता वक्तव्याश्च। वैदिकच्छन्दांसि तु सर्वानु-क्रमिकायां कात्यायनेन दर्शितानि यथा
“अथ छन्दांसि गायत्र्युपङ्क्तिष्णिगनुष्टुव्वृहतीत्रिष्टुब्-जगत्यतिजगतीशक्वर्यतिशकर्यष्ट्यत्यष्टिधृत्यतिधृतयः कृति-प्रकृत्याकृतिविकृतिसंकृत्यतिकृत्युत्कृतयः चतुर्विंशत्य-क्षरादोनि चतुरुत्तराणि। जनाधिकेनैकेन निचृद्भू-रिजौ द्वाभ्यां विराट्स्वराजौ। पादपूरणार्थं तु क्षैप्रसं-योगैकाक्षरीभावान् व्यूडेत्। आद्ये तु सप्तवर्गे पादवि-शेषात् संज्ञाविशेषास्ताननुक्राम{??} एवोदाहरिष्यामो वि-राड्रूपा विराट्स्थानाश्च बहुला अपि त्रिष्टुभ एवेत्यु-द्देशः। तत्र दशैकादण्यादशाक्षराणां वैराजत्रैष्टुभजा-गता इति संज्ञा अनादेशेऽष्टाक्षराः पादाश्चतुष्पादाश्च-[Page2978-b+ 38] र्चः। प्रथमं छन्दस्त्रिपदा गायत्री। पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थश्चतुष्को वा पदपङ्क्तिः। षट्-सप्तैकादशा उष्णिग्गर्भा। त्रयः सप्तकाः पाद निचृन्-मध्यमः षत्कश्चेदतिनिचृद्दशकश्चेद्यवमध्या। यस्यास्तु षट्सप्तकाष्टकाः सा वर्धमाना विपरीता प्रतिष्ठा। द्वौषट्कौ सप्तकश्चेति ह्रसीयसी।

१ द्वितीयमुष्णिक् त्रिपदान्त्यो द्वादशकः। आद्यश्चेत् पुरउष्णिङ् मध्यमश्चेत्ककुप्। त्रैष्टुभजागतचतुष्काः ककुम्न्यङ्कुशिरैकादशिनोः परः षट्कस्तनुशिरा मध्ये चेत्पि-पीलिकमध्याद्यपञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा। चतुः-सप्तकोष्णिगेव।

३ तृतीयमनुष्टुप्। पञ्चपञ्चकाः षट्कर्श्चको महापद-पङ्क्तिः। जागतावष्टकश्च कृतिः। मध्ये चेदष्टकः पिपी-लिकमध्या। नवकयोर्मध्ये जागतः काविराट्। नववैरा-जत्रयोदशैर्नष्टरूपा। दशकास्त्रयो विराडैकादशका वा।

४ चतुर्थं बृहती तृतीयो द्वादशकः। आद्यश्चेत् पुरस्ता-द्वृहती। द्वितीयश्चेन्न्यङ्कुमारिण्युरोवृहती स्कन्ध-ग्रीवी वा। अन्त्यश्चेदुपरिष्टाद्वृहती। अष्टिनोर्मध्येदशकौ विष्टारवृहती। त्रिजागतोर्ध्ववृहती। त्र-योदशिनोर्मध्येऽष्टकः पिपीलिकमध्या। नवकाष्टकैकादशाष्टिनो विषमपदा। चतुर्नवका वृहत्येव।

५ पञ्चमं पङ्क्तिः पञ्चपदा। अथ चतुष्पदा विराड्-दशकाः। अयुजौ जागतौ सतोवृहती युजौ चेद्बि-परीतादौ चेत प्रस्तारपङ्क्तिरन्त्यौ चेदास्तारपङ्क्तिराद्यन्त्यौ चेत् संस्तारपङक्तिर्मध्यमौ चेद्विष्टारपङ्क्तिः।

६ षष्ठं त्रिष्टुप् त्रैष्टुभपदा। द्वौ तु जागतौ यस्याः साजागते जगती त्रैष्टुभे त्रिष्टुप्। वैराजौ जागतौचाभिसारिणी। नवकौ वैराजस्त्रैष्टुभश्च द्वौ वा वै-राजौ मवकस्त्रैष्टुभश्च विराट् स्थानैकादशिनस्त्रयोऽष्टकश्चविराड्रूपा। द्वादशिनस्त्रयोऽष्टकश्च ज्योतिष्मती। यतो-ऽष्टकस्ततोज्योतिः। चत्वारोऽष्टका जागतश्च महावृ-हती। मध्येजागतश्चेद्यवमध्या आद्यौ दशकावष्टका-स्त्रयः पङ्क्त्युत्तरा विराट् पूर्वा वा।

७ सप्तमं जगती जागतपदा। अष्टिनस्त्रयः रखौ च द्वौमहासतोवृहती। अष्टकौ सप्तकः षट्को दशकोनवकश्च षडष्टका वा महापङ्क्तिः” तत् प्रतिपादकग्रन्थस्य वेदाङ्गत्वं यथोक्तं शिक्षाग्रन्थे[Page2979-a+ 38]

३१ ।

७ ।
“छन्दःपादौ तु वेदस्य हस्तौक ल्पोऽथ पठ्यतेज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते। शिक्षा घ्राणंतु वेदस्य मुखं व्याकरणं स्मृतम्। तस्मात् साङ्गमधीत्यै-व व्रह्मलोके महीयते” इति। छन्दोग्रन्थस्य वेदोपयोगिता ऋग्वेदभाष्ये दर्शिता यथाछन्दोग्रन्थोऽप्युपयुज्यते छन्दोविशेषाणां तत्र तत्र विहि-तत्वात्।
“तस्मात् सप्त चतुरुत्तराणि छन्दांसि प्रातरनु-वाकेऽनूच्यन्ते” इति ह्याम्नातम्। गायत्र्युष्णिगनुष्टुव्वृहतीपङ्क्तित्रिष्टुब्जगतीत्येतानि सप्त छन्दांसि। चतुर्विंशत्यक्षरा गायत्री। ततोऽपि चतुर्भिरक्षरैरधि-काष्टाविंशत्यक्षरोष्णिक्। एवमुत्तरोत्तराधिका अनुष्टु-वादयोऽवगन्तव्याः। तथान्यत्रापि श्रूयते।
“गायत्री-भिर्व्राह्मणस्य दध्यात्, त्रिष्टुब्भीराजन्यस्य, जगतीभि-र्वैश्यस्येति”। तत्र मगणयगणादिसाध्यो गायत्र्यादिविवेकश्छन्दोग्रन्थमन्तरेण न सुविज्ञेयः। किञ्च
“योह वा अविदितार्षेयच्छन्दोदैवतव्राहणेन मन्त्रेण याज-यति वाऽध्यापयति वा स्थाणुं वर्च्छति। गर्त्ते वापत्यते। प्र वा मीयते पापीयान् भवति तस्मादेतानिमन्त्रे मन्त्रे विद्यादिति” श्रूयते। तस्मात्तादद्वेदनायछन्दोग्रत्थ उपयुज्यते।

६ सामभेदे
“छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत” श्रुतिः छन्दोगः। छन्दोऽधीते
“श्रोत्रियं श्छन्दोऽधीते” पा॰ अण् वा श्रो-त्रियन्नादेशः। श्रोत्रिय छन्दोऽध्येतरि पुक्षे अण्मात्रम्। छान्दस तत्रार्थे
“श्रोत्रियच्छान्दमौ समौ” अमरः। छन्दसा इच्छया निर्म्मितम् यत्। छन्दस्य इच्छया नि-र्म्मिते त्रि॰। छन्दसो व्याख्यानो ग्रन्थः यत् अण् वा। छन्दस्य छान्दस वेदव्याख्यानग्रन्थे। तत्र गायत्र्यादौछन्दसि
“सप्त छन्दांसि क्रतुमेकं तन्वन्ति” भा॰ व॰

१३

४ अ॰।
“गायत्री छन्दसामहम्” गीता।
“छन्दो-भिरच्छादयन् यदेभिरच्छादयन् तच्छन्दसां छन्दस्त्वम्” छा॰ उ॰। वेदे
“छन्दसि बहुलम्” पा॰।
“युक्तश्छ-न्दांस्यधीयत” मनुः
“हिरण्यगर्भो भगवान् यएष छन्दसास्तुतः” हरिवं॰

२२

६ अ॰।
“आसीन्महीक्षितागाद्यःप्रणवश्छन्दसामिव” रघुः। इच्छायां छन्दस्वः। छन्दस इदम् अण्। छान्दस वेदसम्बन्धिनि त्रि॰सर्वच्छन्दसि समार्द्धसमविषमभेदादिज्ञानाय लीला॰उक्तं यथा[Page2979-b+ 38]
“समादिवृत्तज्ञानाय करणसूत्रं सार्द्धार्य्या। पादा-क्षरमितगच्छे गुणवर्गफलञ्चये द्विगुणे॥ समवृत्तानांसङ्ख्या तद्वर्गोवर्गवर्गश्च। स्वस्वपदोनौ स्यातार्मसमा-नाञ्च विषमाणाम्॥ उदाहरणम्। समानामर्द्धतुल्यानांविषमाणां पृथक् पृथक्। वृत्तानां वद मे सङ्ख्यामनुष्टुप्-छन्दसि द्रुतम्॥ न्यासः। उत्तरगुणः।

२ । गच्छः।

८ । लब्धाः समवृत्तानां सङ्ख्याः।

२५

६ । तथार्द्ध-समानाम्।

६५

२८

० । विषमाणाञ्च।

४२

९४

९०

१७

६० ।
“अद्ध्रयोयस्य चत्वारस्तुल्यलक्षणलक्षिताः। तच्छन्दःशास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते॥ प्रथमाङ्घ्विसमोयस्यतृतीयश्चरणोभवेत्। द्वितीयस्तुर्यवद्वृत्तं तदर्द्धसममुच्यते॥ यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम्। तदाहु-र्विषसं वृत्तं छन्दःशास्त्रविशारदाः”॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्¦ n. (-न्दः)
1. Poetical metre of every kind, bnt it is also applicable particularly to the metre of the Vedas.
2. Meaning, purport, ob- ject, intention.
3. Wish, desire.
4. the Vedas or scripture.
5. Wilfulness, independence, uncontrolled or unrestrained conduct. E. छदि to gladden, &c. and असुन् Unadi affix, च is changed to छ; also in some senses with a final vowel छन्द q. v.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस् [chandas], n. [छन्दयति असुन्]

Wish, desire, fancy, will, pleasure; (गृह्णीयात्) मूर्खं छन्दो$नुवृत्तेन याथातथ्येन पण्डितम् Chāṇ.33.

Free will, free or wilful conduct.

Meaning, intention.

Fraud, trick, deceit.

The Vedas, the sacred text of the Vedic hymns; स च कुल- पतिराद्यश्छन्दसां यः प्रयोक्ता U.3.48; बहुलं छन्दसि frequently used by Pāṇini; प्रणवश्छन्दसामिव R.1.11; Y.1.143; Ms.4.95.

A metre; ऋक्छन्दसा आशास्ते &Sacute.4; गायत्री छन्दसामहम् Bg.1.35;13.4.

Metrical science, prosody; (regarded as one of the six Vedāṅgas or auxiliaries to the Vedas, the other five being शिक्षा, कल्प, व्याकरण, निरुक्त and ज्योतिष).

A metrical composition. ... मया काव्यानि तन्वता छन्दो विनिर्मितं तस्मिन् कृतः सर्वस्य संग्रहः Parṇāl.1.23.

A festival; वेदे वाक्ये वृत्तभेदे उत्सवे$पि नपुंसकम् । Nm. -Comp. -कृतम् any metrical part of the Vedas or other sacred compositions; यथो- दितेन विधिना नित्यं छन्दस्कृतं पठेत् Ms.4.1.

गः (छन्दोगः) a reciter in metre.

a student or chanter of the Sāmaveda; Ms.3.145; (छन्दोगः सामवेदाध्यायी)

The Sāmaveda; साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् Bhāg. 12.6.53. -भङ्गः a violation of the laws of metre.-विचितिः f. 'examination of metres', N. of a work on metres, sometimes ascribed to Daṇḍin; छन्दोविचित्यां सकलस्तत्प्रपञ्चो निदर्शितः Kāv.1.12. -वृत्तम् a metre in general. -स्तुभ् m. N. of Aruṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस् n. " roof "See. बृहच्-

छन्दस् n. deceit Un2.

छन्दस् n. desire , longing for , will MBh. xii , 7376 Pa1n2. 4-4 , 93 Ka1s3.

छन्दस् n. intention , purport W.

छन्दस् n. a sacred hymn (of AV. ; as distinguished from those of RV. SV. and YajurV. ) , incantation-hymn RV. x AV. S3Br. viii MBh. v , 1224 Ragh. i , 11

छन्दस् n. the sacred text of the Vedic hymns S3Br. xi , 5 , 7 , 3 A1s3vGr2. Kaus3. Gobh. VPra1t. Pa1n2. Mn. etc.

छन्दस् n. metre (in general , supposed to consist of 3 or 7 typical forms [ AV. VS. etc. ] to which विराज्is added as the 8th [ S3Br. viii , 3 , 3 , 6 ] ; छन्दस्opposed to गायत्रिand त्रिष्टुभ्RV. x , 14 , 16 )

छन्दस् n. metrical science Mun2d2Up. i , 1 , 5 MBh. i , 2887 Pan5cat. S3rut.

छन्दस् n. = दो-ग्रन्थNya1yam. ix , 2 , 6 Sch. ; ([ cf. Lat. scando , " to step , scan. "])

छन्दस्/ छन् etc. See. ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Vedic metres as steeds of the sun's chariot; फलकम्:F1: भा. II. 6. 1; Vi. II. 8. 5.फलकम्:/F as part of विष्णु. फलकम्:F2: Vi. V. 1. ३७; Br. I. 5. १९.फलकम्:/F Seven in number--names given.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Chandas in the Rigveda usually denotes a ‘song of praise’ or ‘hymn.’[१] The original sense of the word, as derived from the verb chand, ‘to please,’ was probably ‘attractive spell,’ ‘magic hymn,’[२] which prevailed on the gods. In a very late hymn of the Rigveda,[३] as well as in one of the Atharvaveda,[४] the word is mentioned in the plural (chandāṃsi), beside Ṛc (ṛcaḥ), Sāman (sāmāni), and Yajus, and seems to retain its original meaning, not improbably with reference to the magical subject-matter of the Atharvaveda. From denoting a (metrical) hymn it comes to mean ‘metre’ in a very late verse of the Rigveda,[५] in which the ‘Gāyatrī, the Triṣṭubh, and all (sarvā) the metres (chandāṃsi) are mentioned. In the later Saṃhitās three[६] or seven[७] metres are enumerated, and in the Śatapatha Brāhmaṇa[८] eight. By the time of the Rigveda Prātiśākhya[९] the metres were subjected to a detailed examination, though much earlier references are found to the number of syllables in the several metres.[१०] Later the word definitely denotes a Vedic text generally, as in the Śatapatha Brāhmaṇa.[११]

2. Chandas occurs in one passage of the Atharvaveda[१२] in the adjectival compound bṛhac-chandas, which is used of a house, and must mean ‘having a large roof.’ Bloomfield[१३] accepts the reading as correct, but Whitney[१४] considers emendation to Chadis necessary.

  1. Rv. x. 85, 8 (an obscure verse);
    114, 5;
    Av. iv. 34, 1;
    v. 26, 5;
    vi. 124, 1;
    xi. 7, 8, etc.
  2. Cf. Roth in St. Petersburg Dictionary, s.v.
  3. Rv. x. 90, 9.
  4. Av. xi. 7, 24.
  5. x. 14, 16.
  6. Av. xviii. 1, 17;
    Vājasaneyi Saṃhitā, i. 27, etc.
  7. Av. viii. 9, 17. 19, etc.
  8. viii. 3, 3, 6, etc.
  9. xvi. 1 et seq. Cf. Max Müller, Sacred Books of the East, 32, xcv. et seq.
  10. Kāṭhaka Saṃhitā, xiv. 4;
    Jaittirīya Saṃhitā, vi. 1, 2, 7.
  11. xi. 5, 7, 3. So Gobhila Gṛhya Sūtra, iii. 3, 4. 15, etc.
  12. iii. 12, 3.
  13. Hymns of the Atharvaveda, 345;
    Zimmer, Altindisches Leben, 150.
  14. Translation of the Atharvaveda, 105.
"https://sa.wiktionary.org/w/index.php?title=छन्दस्&oldid=499616" इत्यस्माद् प्रतिप्राप्तम्