यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जगद्योनिः, पुं, (जगतां योनिरुत्पत्तिस्थानम् ।) शिवः । इति त्रिकाण्डशेषः ॥ (यथा, महा- भारते । ७ । २०० । १३ । “जगद्योनिं जगद्बीजं जयिनं जगतों गतिम् ॥”) विष्णुः । इति तस्य सहस्रनाम ॥ (यथा, विष्णु- पुराणे । १ । १२ । ३२ । “ते समेत्य जगद्योनिमनादिनिधनं हरिम् ॥” केचित्तु हरिविशेषणं कल्पयन्ति ॥) ब्रह्मा । (यथा, कुमारे । २ । ९ । “जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ॥”) पृथिव्यां स्त्री । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=जगद्योनिः&oldid=135163" इत्यस्माद् प्रतिप्राप्तम्