यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घालः, त्रि, (प्रशस्ता वेगवतीत्यर्थः जङ्घास्त्य- स्येति । जङ्घा + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् । जङ्घाबलेनैव वेगस्य जननात्तथात्वम् ।) अतिवेगवान् । तत्पर्य्यायः । अविजवः २ । इत्य- मरः । २ । ८ । ७३ ॥ (यथा, काशीखण्डे गङ्गामाहात्म्ये । २९ । ६४ । “जाह्नवीज्या जगन्माता जप्या जङ्घाल- वीचिका ॥”) हरिण । एणः । कुरङ्गः । ऋष्यः । पृषतः । न्यङ्कुः । शम्बरः । राजीवः । मुण्डी । (यथा, -- “एणहरिणर्ष्यकुरङ्गकरालकृतमालशरभ- श्वदंष्ट्रापृषतचारुष्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः कषाया मधुरा लघवो वातपित्त- हरास्तीक्ष्णा हृद्या वस्तिशोधनाश्च ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥) एषां मांसगुणाः । “जङ्घालाः प्रायशः सर्व्वे पित्तश्लेष्महराः स्मृताः । किञ्चिद्वातकराश्चापि लघवो बलवर्द्वनाः ॥” इति भावप्रकाशः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाल पुं।

अतिवेगगमनशीलः

समानार्थक:जङ्घाल,अतिजव

2।8।73।1।1

जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ। तरस्वी त्वरितो वेगी प्रजवी जवनो जवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाल¦ त्रि॰ जङ्घा वेगवती अस्त्यस्य लच्। धावके जङ्घाजीविनि।
“हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः। रा-जीवश्च, तथा मुण्डी जङ्घालाः परिकीर्त्तिता” भावप्र॰उक्तेषु मृगेषु पु॰ स्त्री।
“जङ्घालाः प्रायशः सर्व्वे पित्तश्ले-ष्महराः स्मृताः। किञ्चिद्वातकराश्चापि लघवो बल-वर्द्धनाः भावप्र॰ तन्मांसगुणोक्तिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाल¦ mfn. (-लः-ला-लं) Quick, rapid, going quickly. m. (-लः)
1. A courier.
2. A deer, an antelope. E. जङ्घा the leg, and अल able, stout, or जङ्घा वेगवती अस्ति अस्य लच् | धावके |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाल [jaṅghāla], a. [जङ्घा वेगवती अस्त्यस्य लच्] Running swiftly, rapid. जङ्घालजनसङ्कुलम् Śiva. B.22.23.

लः A courier

A deer, an antelope.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्घाल m. " running swiftly , runner " , a class of animals (antelopes etc. ) Car. i , 27 , 51 Sus3r. i , 46 Bhpr.

"https://sa.wiktionary.org/w/index.php?title=जङ्घाल&oldid=376279" इत्यस्माद् प्रतिप्राप्तम्