यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटाधरः, पुं, (धरतीति । धृ + अच् । जटाया धरः ।) शिवः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १३ । १७ । १२६ । “त्रिनेत्रश्च विषण्णाङ्गो मणिबिद्ध्वो जटाधरः ॥”) बुद्धभेदः । इति त्रिकाण्डशेषः ॥ पर्य्याय- नानार्थकोषाख्याभिधानतन्त्रकारश्च ॥ (स्कन्द- स्यानुचरविशेषः । यथा, महाभारते । ९ । ४५ । ५९ । “परिश्रुतः कोकनदः कृष्णकेशो जटाधरः ॥” देशविशेषः । स तु दाक्षिणात्यप्रदेशः । यथा, बृहत्संहितायाम् । १४ । १३ । “अथ दक्षिणेन ।” इत्युक्त्वा, -- “क्रौञ्चद्बीपजटाधरकावेर्यो रिष्यमूकश्च ॥” इत्युक्तवान् ॥ जटाधारिणि, त्रि । यथा, रामायणे । २ । ८६ । २५ । “जटाधरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=जटाधरः&oldid=135224" इत्यस्माद् प्रतिप्राप्तम्